Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 120
________________ विशेषा बृहदतिः । ॥१३॥ अथवा, इह वर्जनीयं वर्ण्यत इति वयं पापमुच्यते, सह वर्थेन वर्तत इति सहस्य सभावात् समकारस्य च प्राकृतत्वेन दीर्घत्वविधानात् सावर्षीमित्युक्तं सवपः सपापो योगस्तं सवय॑मिति ॥ ३४९७ ॥ योगपदव्याख्यानार्थमाहजोगो जोयणमायकिरिया समाधाणमायवावारो । जीवेण जुज्जए वा जओ समाहिज्जए सो त्ति ॥ ३४९८ ॥ जं तेण जुज्जए वा स कम्मुणा जं च जुज्जए तम्मि | तो जोगो सो य मओ तिविहो कायाइवावारो ॥३४९९॥ व्याख्या-'युजि योगे' 'युज समाधौ वा' योजनं योग आत्मकर्मसंबन्ध इत्यर्थः । अथवा, आत्मनश्चलन-स्पन्दनादिक्रियया सभ्यगाधानं योजनं योगः सकर्मक आत्मव्यापार इत्यर्थः। अथवा, जीवेन सह युज्यते समाधीयते संबध्यते स यस्मात्, ततो योगो जीवव्यापार एवेति । अथवा, स आत्मा तेन कृत्वा कर्मणा सह युज्यते यस्मात् ततो योगः । अथवा, यस्मात् तस्मिन् योगे सत्यात्मा कर्मणा युज्यते ततो योगः । स च त्रिविधः कायादिव्यापारो मतः-मनो-वाक् कायव्यापार इत्यर्थः ।। ३४९८ ।। ३४९९ ।। अथ सर्वादिपदानां क्रियया सह संबन्धं कुर्वन्नाह -- सव्वा सावजो त्ति य जोगो संबज्झए तयं सव्वं । सावज जोगं ति य पच्चक्खामि त्ति वजेमि ॥३५००॥ सर्बो निरवशेषः सावद्ययोग इति संबध्यते । तं सर्व सावद्ययोगं प्रत्याख्यामीति क्रिया प्रत्याचक्षे वा वर्जयामीत्यर्थः।।३५००॥ इह प्रत्याख्यामि प्रत्याचक्षे चेति क्रियाद्वयेऽपि सावद्ययोगस्य प्रत्याख्यानं गम्यते, अतस्तदेव प्रत्याख्यानं व्याचिख्यासुराहपइसहो पडिसेहे अक्खाणं खावणाऽभिहाणं वा । पडिसेहस्सक्खाणं पच्चक्खाणं निवित्ति त्ति ॥ ३५०१ ॥ प्रतिशब्दोऽत्र प्रतिषेधे वर्तते, आख्यानं त्वाभिमुख्येन वाऽऽदरेण वा ख्यापना प्रकथनं, चक्षिपक्षेऽभिधानं वा, प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिः ॥ इति गाथाषोडशकार्थः ॥ ३५०१॥ १ योगो योजनमात्माक्रिया समाधानमात्मव्यापार: । जीवेन युज्यते वा यतः समाधीयते स इति || ३४९८ ॥ यत् तेन युज्यते वा कर्मणा यच युज्यते तस्मिन् । ततो योगः स च मतस्विविधः कायादिव्यापारः ।। ३४९९ ॥ सर्वः सावध इति च योगः संबध्यते तत् सर्वम् । सावधं योगमिति च प्रत्याख्यामीति वर्जयामि || ३५०० ॥ ३ प्रतिशब्दः प्रतिषेधे आख्यानं ख्यापनाऽभिधानं वा । प्रतिषेधस्याख्यानं प्रत्याख्यानं निवृत्तिरिति ॥ ३५०१॥ ॥१३१८॥ For Personal and Use Only

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160