Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
बृहद्वृत्तिः ।
॥१३२२॥
अथौघ -- भवजीवितयोविवरणमाह - आउस्सद्दब्बतया सामन्नं पाणधारणमिहोहो । भवजीवियं च उद्धा नेरइयाईण जावत्था ॥ ३५१२ ॥
आयुष आयुमात्ररूपस्य कर्मणः संबन्धीनि यानि सन्ति जीवस्य सत्तावर्तीनि द्रव्याणि तान्यायुःसद्व्याणि तद्भाव आयु:सद्व्यता तयाऽऽयुःसद्रव्यतया संसारे परिभ्रमतो जीवस्य यत् सामान्य माणधारणं यदाश्रित्य सिद्धा एच मृता उच्यन्ते, न संसारिणः, तदिह संसारिणां जीवितसामान्यमात्ररूपमोघ ओघजीवितमुच्यत इति । भवन्ति प्राणिनोऽस्मिन्निति भवः संसारस्तत्रावस्थितिहेतु भूतं भवानीवितम्, तच्चतुर्धा । किं पुनस्तत् ! इत्याह-नारकादीनां या जन्मनः प्रथमसमयाचरमसमयं यावदवस्थाऽवस्थितिरवस्थानं तद्धतुत्वात् सा भवजीवितमिति ॥ ३५१२ ॥ तद्भवजीवितं भोगजीवितं चाह
तब्भवजीवियमोरालियाण जं तब्भवोववन्नाणं । चक्कहराईणं भोगजीवियं सुरवराणं च ॥ ३५१३ ॥ पुनः पुनस्तत्रैव विवक्षिते भवे उत्पन्नास्तद्भवोत्पमास्तेषां तद्भवोत्पन्नानां यज्जीवितं तत् तद्भवजीवितमुच्यते । तच्चौदारिकशरीरिणां तिर्यग् मनुष्याणामेवावगन्तव्यम् । तत्रैकेन्द्रियाणां पुनः पुनस्तत्रैवै केन्द्रियभव उत्पद्यमानानामनन्तानि भवग्रहणान्येतदुत्कृष्टतो. ऽवसेयम् । द्वीन्द्रियाणां तु संख्यातानि भवग्रहणानि । पञ्चेन्द्रियतिरश्वां मनुष्याणां च सप्ताष्टौ चा भवग्रहणानीति मन्तव्यम् । जघन्यतस्तु सर्वत्र द्वे भवग्रहणे । चक्रियशरीरिणां तु देव-नारकाणामिदं न संभवत्येव, पुनः पुनस्तत्रैवोत्पत्यभावादिति । चक्रधरादीनां तु भोगपुरुषाणां सुरवराणां च देवानां जीवितं भोगजीवितामिति ॥ ३५१३ ॥
शेषजीवितानि तु त्रीण्याहसेंजमजीवियमिसीणं असंजमजीवियमविरयाणं । जसजीवियं जसोनामओ जिणाईण लोगम्मि ॥३५१॥
१ आयुःसध्यतया सामान्य प्राणधारणमिहोघः । भवजीवितं चतुर्धा नैरायिकादीनां यावस्था ॥ ३५१२ ॥ २ तद्भवजीवितमौदारिकाणां यत् तद्भवोपपन्नानाम् । चक्रधरादीनां भोगजीवितं सुरवराणं च ।। ३५१३ ॥ ३ क. ग. ज. 'रंगणाणं'। ४ संयमजीवितमूषीणामसंयमजीवितमविरतानाम् । यशाजीवितं यशोनामतो जिनादीनां लोके ।। ३५१४ ॥
॥१३२२॥
Loading... Page Navigation 1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160