Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वृत्तिः।
वच्छलघातितया संचूर्णयितुमारब्धं तद्वारकपाटसंपुटम् । ततो मया ससंभ्रमेण निपुणं तत्पतिविधानोपायं चिन्तयित्वा विरचयितुमारविशेषा०14 ब्धं तद्द्वारपिधान हेतोर्विशेषावश्यकविवरणाभिधानं वज्रमयमिव नूतनकपाटसंपुटम् । ततश्चाभयकुमारगणि धनदेवगणि जिनभद्रगणि
लक्ष्मणगणि-विबुधचन्द्रादिमुनिवृन्द-श्रीमहानन्द-श्रीमहत्तरावीरमतीगणिन्यादिसाहाय्याद् ‘रे रे निश्चितमिदानी हता वयम्, यद्येतद् ॥१३५७॥
निष्पद्यते, ततो धावत धावत, गृहीत गृहीत, लगत लगत' इत्यादि पृतकुर्वतां सर्वात्मशक्त्या युगपत् प्रहरतां हाहारचं कुर्वतां च मोहादिचरटानां चिरात् कथं कथमपि विरचय्य तद्वारे निवेशितमेतदिति । ततः शिरो हृदयं च हस्ताभ्यां कुट्टयन् विषण्णो मोहमहाचरटः, समस्तमपि विलक्षीभूतं तत्सैन्यम्, निलीनं च सनायकमेव । ततः कचित् क्षेमेण शिवरत्नहीपं प्रतिगन्तुं प्रवृत्तं तद् यानपात्रमिति ॥
क्व श्रीजिनभद्रगणेः पूज्यस्यैतानि भाष्यवचनानि । तर्कव्यतिकरदुर्गाण्यतिगम्भीराणि ललितानि ॥१॥ विवृतानि स्वयमेव हि कोट्याचार्यैश्च बुधजनप्रवरैः । संगच्छते क पुनरपि ममापि वृत्तेः प्रयासोऽत्र ॥२॥ ऋजुभणितिमिच्छतामिह तथापि मत्तोऽपि मन्दबुद्धीनाम् । उपकारः केषाश्चित् समीक्ष्यते शिष्टलोकानाम् ॥३॥ तेनात्म-परोपकृति संभाव्य मयापि भाष्यवृत्तिरियम् । विहिता श्रुतेऽतिभक्तिं शुभविनोदं च चिन्तयता ॥४॥ यच्चेह किमपि वितथं लिखितमनाभोगतः कुबोधाद् वा । तत् सर्व मध्यस्थैर्मय्यनुकम्पापरैः शोध्यम् ॥ ५॥ कृत्वा च विवरणमिदं यत् पुण्यमुपार्जितं मया किञ्चित् । तेना भवक्षयादस्तु जिनमते प्रीत्यविच्छेदः ॥ ६॥ ग्रन्थाग्रं प्रत्यक्षरं गणनया सहस्राणि । २८०००। श्रीमत्तपोगणगगनाङ्गणगगनमणिप्रभैः स्वपुण्यार्थम् । विजयानन्दमुनीन्द्रैश्वित्कोशेऽसौ प्रतिर्मुमुचे ॥१॥
॥१३५
१ क-ख-'विपन्नो'।
Jan Education
For Personal and Price Use Only
Loading... Page Navigation 1 ... 157 158 159 160