Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 158
________________ विशेषा तद् यावदेतदस्मदीयसंसारनाटकं सर्वशून्यं न करोति तावद् धावत धावत' इति वाणः ससंभ्रममुत्थाय महादुष्टो दुर्बुद्धिनामिका महानावमारूढः । कुवासनाभिधाननौवन्दादिरूढाशेषतस्करनिकरसहित एवं प्रधावितः सत्वरम् । समागतश्च यानपात्रदेशम् । ततः पूत्कृतं पञ्जरदौवारिकेण-भो भोः । समायाता एतास्तास्तस्करचेटिकाः, प्रगुणीभवत यूयम् । तदेतत् श्रुत्वा निर्यामकोत्साहितास्तदुपदिष्टविधिनैव रणमण्डपमारूढाः सजीभूताश्चारित्रधर्मनृपतिसैन्येन सह पूर्वोक्तरूपा योधाः । गृहीतानि च सर्वैरपि पञ्जरदौवारिकादिभिर्यथोचितं जीवादितत्त्वचिन्तनादिरूपाणि नाराचनादिपहरणानि । मोहराजेनापि निरूपितो मिथ्यादर्शनमन्त्री, उत्साहिताः कषायचरटाः, तर्जितं हास्यादिषटलुण्टाकन्दम्, पुरस्कृतः पुरुषवेदादिपरिवृतकाममहातस्करः, व्यापारिता निद्रा-तन्द्रादयः, प्रेरिताश्चक्षुर्दर्शनावरणादयः, अग्रेसरीकृतं रोगाद्यसातवेदनीयसैन्यम्, प्रवर्तिताजराऽन्तरायादयः, स्वयमपि च निजतनयरागकेसरिद्वेषगजेन्द्रादितलवर्गान्वितेन मोहचरटाधिपेन वेष्टितं समन्ततोऽनन्तगुणपरिपाट्या यानपात्रम् । प्रहर्तुमारब्धं चाक्षेपेण सर्वैरपि समकालम् । ततश्च सदागमसेनाधिपोत्साहितेन सम्यग्दर्शनमन्त्रिणा समाक्षिप्तो मिथ्यादर्शनमन्त्री, प्रशम-मार्दवा-ऽऽर्जवादिमहायोधैरपि लीलयैव निरुद्धाः क्रोधादिकषायचरटाः, वैराग्य ब्रह्मतादिमहासुभटैरपि दूरमुत्त्रासितो हास्यादिनिजतलवर्गानुगतः काममहालुण्टाकः, अप्रमादमहारथिनापि श्रुतोपयोगोद्यमादिनाराचैस्ताडिताः शिरसि निद्रा-तन्द्रादयः, तदावरणक्षयोपशमवीरेणाप्यधरीकृताश्चक्षुर्दर्शनावरणादयः, सद्धर्मानुष्ठानोदी पितसातोदयसैनिकेनापि विलक्षीकृतं रागाद्यसातवेदनीयसैन्यम्, पुण्योदयमहाबलराजपुत्रेणापि निष्पभावीकृता जरा-ऽन्तरायादयः । एवमन्येषामप्यनन्तानां चारित्रधर्मराजसैनिकानां निजनिजप्रतिपक्षेण सह महासमरसंमर्दे प्रवृत्ते निजसैन्यं किश्चिद् नश्यमानमवलोक्य 'रे रे तस्कराधमाः ! किमेतदारब्धम् , स्थिरीभूय कगत लगत सर्वात्मना' इति ब्रुवाणो मोहचरटचक्रवर्ती ससैन्य एवारब्धो युगपत् प्रहर्तुम् । केचित् त्वतीव च्छलघातिनो मोहसैनिकाः केनापि पक्षण समारोहन्ति तद् यानपात्रम्, विप्रतारयितुमुपक्रमन्ते माम्, प्रविशन्ति रणमण्डपस्यान्तः, प्रहरन्ति च्छन्नीभूताः, समाहत्य जर्जरयन्ति सद्भावनामञ्जूषाङ्गानि । ततो मया तस्य परमपुरुषस्योपदेशं श्रुत्वा विरचय्य झटिति निवेशितमावश्यकटिप्पनिकाभिधानं सद्भावनामञ्जूषायां नूतनफलकम्, ततोऽपरमपि शतकविवरणनामकम्, अन्यदप्यनुयोगद्वारवृत्तिसंज्ञितम्, ततोऽपरमप्युपदेशमालासूत्राभिधानम् , अपरं तु तवृत्तिनामकम्, अन्यच्च जीवसमासविवरणनामधेयम्, अन्यत्तु भवभावनासूत्रसंज्ञितम्, अपरं तु तद्विवरणनामकम्, अन्यच्च झटिति विरचय्य तस्याः सद्भावनामञ्जूषाया अङ्गभूतं निवेशितं नन्दिटिप्पनकनामधेयं नूतनदृढफलकम् । एतैश्च नूतनफलकैर्निवेशितैर्वज्रमयीव संजाताऽसौ मञ्जूषा तेषां पापानामगम्या । ततस्तैरती Jain Educational For Personal and Price Use Only

Loading...

Page Navigation
1 ... 156 157 158 159 160