Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 157
________________ विशेषा बृहद्वृत्तिः। ११३५५॥ नमः श्रीमदहद्भयः । इह गम्भीरापारजन्म-जरा-मरणसलिलसंचयसंपूर्णे, अनवरतभ्राम्यन्महामोहावर्तभीमे, विविधविस्रोतसिकावेलाव्यतिकरदुरतिक्रमे, निःसंख्यकुविकल्पकल्लोलमालाकुले, प्रसरदज्ञानमहामेघदुर्दिनान्धकारनिकुरम्बभीषणे, अनेकापद्वियुन्निपातसंपादितमहाभये, राग-द्वेषदुर्वातसंततिसंजनितहृदयो कम्पे, अविश्रान्तसंज्वलितक्रोधातिरौद्रवडवामुखे, अमानमानशैलस्खलनदुर्गीकृतगमागमव्यतिकरे, मायावल्लीवितानगुप्यत्सत्त्व संघाते, विभवसलिकातिदुष्पूरलोभमहोदरे, विविधव्याधिसंबन्धमत्स्य-कच्छ पपृष्ठपुच्छच्छटाटोपग्राह-नक्रादिप्रचुरजलचरसंचरणसंजनितविषमसंचारे शारीर-मानसानन्तदुःखप्रदापारसंसारवारांनिधौ मां निमग्नं विकलं निःशरणं दीनमवलोक्य कोऽपि करुणापरीतमानसः सद्गुणगुरुमहापुरुषः सम्यग्दर्शनातिदृढमहाप्रतिष्ठानमष्टादशशीलाङ्गसहस्रविचित्रफलकनिबिडघटनाविराजितं सम्यग्ज्ञाननिर्यामकान्वितम्, सुसाधुसंसर्गकार्थसूत्रनिविडबन्धनबद्धम् , संवरकीळाभग्ननिःशेषास्रवद्वारम्, मूत्रितसामायिक-च्छेदोपस्थानीयभेदभिन्नरम्यभूमिकाद्वयम्, तदुपर्युपकल्पितसाधुसमाचारकरणरणमण्डपम्, समन्ततो गुप्तित्रयमस्खरागुप्तम्, असंख्यशुभाध्यवसायसंनद्धदुर्योधयोधसहस्रदुरवलोकम् , सर्वतो निवेशितसद्गुरूपदेशावल्लिकनिकुरम्बम्, मध्यव्यवस्थापितस्थिरतरातिसरलसद्बोधकूपस्तम्भम्, तद्विन्यस्तप्रकृष्टशुभभावमयमहासितपटम्, तदनसमारूढमौढसदुपयोगपञ्जरदौवारिकम्, तदवबद्धाप्रमादनगरनिकरसमायुक्तमित्यादिसर्वाङ्गसंपूर्णतया प्रवणं चारित्रमयं महायानपात्रं समर्पयामास, भणितवांश्च-मो महाभाग ! समधिरोह त्वमस्मिन् यानपात्रे । समारूढश्चात्र मदीयशिक्षा कुर्वाणस्त्वमक्षेपेणैव दुस्तरमप्यमुं भवजलधिमुत्तीर्य प्राप्स्यसि निःशेषदुःखातिक्रान्तमनन्तसुखमयं शिवरबद्वीपम् । ततश्च तद्वचनेनाश्वासितोऽहमारूढस्तत्र। समर्पितं च मम तेन महापुरुषेण सद्भावना. मञ्जूषायां प्रक्षिप्य शुभमनोनामकं महारत्नम् । अभिहितं च मां प्रति 'रक्षणीयमिदं प्रयत्नतो भद्र ! तिष्ठति ह्यस्मिन् महाप्रभावे शुभमनोरत्रे एतद् यानपात्रं, यथोक्तो निर्यामकः, कूपस्तम्भः, योधाः, पञ्जरदौवारिक सर्व क्रमेणावतिष्ठमानमभीष्टदेशं त्वां प्रापयति, एतद. भावे तु सर्वमेतत् प्रलयमुपयाति । अत एव तब पृष्ठतः सर्वादरेणैतदपहरणार्थ लगिष्यन्ति ते मोहराजादयो दुष्टतस्कराः। तेभ्यश्च त्वयेदमित्थं रक्षणीयम् । सद्भावनामञ्जूषाङ्गानां चाग्रतो नानाभङ्गसंभवेऽन्यान्यमनि च तदङ्गानि तस्यां निवेशनीयानि । इत्यादिशिक्षा प्रयच्छन् मयापि समं दूरदेशं गत्वा ततोऽन्तर्हितः संजातः । श्रुतश्चायं सर्वोऽपि व्यतिकरः प्रमादपरताभिधानां महापल्ली समाश्रितेन दुष्टतस्कराधिपतिना मोहराजेन । ततो रे रे तस्कराधमाः ! हता वयम्, यतः केनाप्यस्मवैरिणा निजयानपात्रमारोप्यास्मदाविषयभूतं शिवरत्नद्वीपं नेतुमारब्धः सोऽमुकसंसारिजीवः, स च न केवलं चलितः, किन्त्वन्यानपि यथादर्शमात्मना सहानेकान् नयन् तिष्ठति, ॥१५॥ Jan Edmont For Personal and Price Use Only Thalww.jainabrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160