Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 122
________________ विशेषा. ॥१३२०॥ भावस्म भावओ भावहेउमह भाव एवं वाभिमयं । पच्चक्खाणं दुविहं तं सुयमिह नोसुयं चेव ॥ ३५०५ ॥ बृहद्वृत्तिः । पुव्वं नोपुव्वसुयं पच्चक्खाणं ति पुव्वसुयमुत्तं । आउरपच्चक्खाणाइयं च नोपुव्वसुयमुत्तं ॥ ३५०६ ॥ नोसुयपच्चक्खाणं मूलुत्तरगुणविहाणओ दुविहं । सव्वे देसे य मयं इह सव्वं सव्वसदाओ ॥ ३५०७ ॥ व्याख्या -भावस्य सावधयोगपरिणामस्य प्रत्याख्यानं भावप्रत्याख्यान, भावतो वा शुभपरिणामोत्पादात् प्रत्याख्यानं भावपत्याख्यानम्, भावहेतोर्वा सर्वकर्मक्षयार्थ, भाव एव वा सावद्ययोगविरतिलक्षणे प्रत्याख्यानं भावप्रत्याख्यानमभिमतम् । तच्च द्विविधम् - भुतभावप्रत्याख्यानम् , नोश्रुतभावप्रत्याख्यानं चेति । श्रुतभावप्रत्याख्यानं पुनरपि द्विविधम् -'पुच्वं ति' पूर्वश्रुतप्रत्याख्यानम्, 'नोपुच्चसुयं ति' नोपूर्वश्रुतप्रत्याख्यानं चेति। तत्र पच्चक्खाणं वि' इहैकदेशेन समुदायस्य गम्यमानत्वाद् यत् प्रत्याख्यानसंज्ञितं । नवमं पूर्व तत् पूर्वश्रुतप्रत्याख्यानमुक्तम् , आतुरप्रत्याख्यानादिकं तु श्रुतं नोपूर्वश्रुतप्रत्याख्यानमुक्तम्, तस्य पूर्वगतबाह्यत्वेन पूर्वश्रुतत्वायोगादिति । यत्तु श्रुतनिषेधरूपं नोश्रुतमत्याख्यानं तदपि मूळोत्तरगुणविधानाद् मूलोत्तरगुणभेदाद् द्विविधम् मूलगुणप्रत्याख्यानम् , उत्तरगुणप्रत्याख्यानं चेत्यर्थः । इदमप्येकै द्विविधं पतम्-सर्वतो देशतश्च । इह च सर्व सर्वमूलगुणप्रत्याख्यानं सर्वोत्तरगुणप्रत्याख्यानं चाधिकृतम् । कुतः ? इत्याह-सव्वसद्दाउ त्ति' 'सव्वं सावजं जोग' इत्यत्र सर्वशब्दोपादानादित्यर्थः ॥३५०५॥३५०६॥३५०७॥ ___ अथ 'यावज्जीवया' इति पदं व्याचिख्यासुराहजीवो त्ति जीवणं पाणधारणं जीवियं ति पजाया । गहियं न जीवदव्वं गहियं वा पजयविसिढे ॥३५.८॥ इह 'यावज्जीवो यस्यां प्रत्याख्यानक्रियायां सा यावज्जीवा तया सर्व सावा योग प्रत्याख्यामीति किलायमर्थोऽभिप्रेत इति । जीव इति किमुच्यते ? इत्याह--जीवनमिति, जीवनं पाणधारणं जीवितमिति च पर्यायाः । यथाश्रुतसंबन्धेन तु 'जीवति' इति जीव इति जीवद्रव्यमिह न गृहतिम्, वक्ष्यमाणदोषसंभवात् । गृहीतं वा जीवद्रव्यमपि । किं निर्विशिष्टम् । नेत्याह-पर्यायविशिष्टम् - १ भावस्य भावतो भावहेतोरथ भाव एव वाभिमतम् । प्रत्याख्यानं द्विविधं तत् श्रुतमिह नोश्रुतं चैव ।। ३५०५ ।। पूर्व नोपूर्वश्रुतं प्रत्याख्यानमिति पूर्वश्रुतमुक्तम् । आतुरप्रत्याख्यानाविकं च नोपूर्वश्रुतमुक्तम् ॥ ३५०६ ।। नोश्रुतप्रत्याख्यानं मूलोत्तरगुणविधानतो द्विविधम् । सर्वतो देशतश्च मतमिह सर्व सर्वशब्दात् ॥ ३५०७ ॥ ॥१३२०॥ २ जीव इति जीवनं प्राणधारणं जीवितमिति पर्यायाः । गृहीतं न जीवद्रव्यं गृहीतं वा पर्यायविशिष्टम् ।। ३५०८ ॥ JanEducational For Personal and Price Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160