Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥१३२६ ॥
Jain Education h
'मन ज्ञाने' 'मनु बोधने' वा, मननम्, मन्यते वाऽनेनेति मनस्तेन मन उच्यते । तच्च द्रव्यतो द्रव्यमनस्तद्योग्यपुद्गलमयं द्रष्टव्यम् । भावमनस्तु मन्ता जीवो भण्यते । इदमुक्तं भवति-मनो द्विविधम्-द्रव्यमनः, भावमनश्च । तत्र यत् तद्योग्यैर्मननयोग्यैर्मनो वर्गणाभ्यो गृहीतैरनन्तेः पुद्गलैर्निर्वृत्तं तद् द्रव्यमनो भण्यते । यत्तु तज्जन्यं मननं चिन्तनं तद् भावमनोऽभिधीयते, इह तु तदव्यतिरिक्तत्वाद् मन्ता rial भावनस्त्वेनेोक्त इति ॥ ३५२५ ॥
वाक्करणमाह
ari वागुच्चए वाsee त्ति वायत्ति दव्वओ सा य । तज्जोग्गपोग्गला जे गहिया तप्परिणया भावो ॥३५२६ ॥ वचनं वारा, उच्यते वाऽनयेति वाग् । सा च द्रव्यतो द्रव्यवागतद्योग्या भावयोग्या भाषावर्गणाभ्यो गृहीताः पुगळा इति । ये तु तत्परिणता भाषात्वेन परिणता उच्यमानाः पुद्गलाः सा भावो भाववागिति ||३५२६ ||
कायकरणमाह
जीवरस निवासाओ पोग्गलचयओ य सरणधम्माओ । काओऽवयवसमाहाणओ य दव्व-भावमओ || ३५२७॥ तज्जोग्गपुग्गला जे मुक्का य पओगपरिणया जाव । सो होइ दव्वकाओ बद्धा पुण भावओ काओ || ३५२८ ॥
व्याख्या- 'चिव् चयने' इति धातोश्चयनं कायः चीयतेऽनेनेति वा कायो निवास- चिति-शरीरो-पसमाधानेषु, “आदेश कः” इत्यनेनादेरिह ककारः, अत एवाह - जीवस्य काये निवासात्, पुद्गलानां चयात्, प्रतिक्षणं च विशरणधर्मकत्वात् शिर-उरो बाहा द्यवयवानामिह सम्यगाधानाच्च कत्वविधानहेतवो निवासादयोऽर्था मन्तव्याः । स च कायो द्रव्य भावमयो बोद्धव्यः - द्रव्यकायः, भाव कायश्चेत्यर्थः । तत्र य औदारिकादिवर्गणागतास्तद्योग्या औदारिकादिकाययोग्या औदारिककायपरिणतेरभिमुखतां प्राप्ता जीवेन पुनरद्याप्यगृहीताः पुद्गलाः स द्रव्यकायः, न केवलं त एव, किन्तु य औदारिकादिकायरूपतया परिणमय्य जीवेन मुक्तास्त्यक्ताः
१ वचनं वागुच्यते वाऽनयेति वागिति द्रव्यतःः सा च । तद्योग्यपुद्गला ये गृहीतास्तत्परिणता भावः || ३५२६ ||
२ जीवस्य निवासात् पुगलचयतश्च शरणधर्मात् कायोऽवयवसमाधानतश्च द्रव्य भावमयः || ३५२७॥
योग्यपुद्गला ये मुक्ताश्च प्रयोगपरिणता यावत् । स. भवति द्रव्यकायो बद्धाः पुनर्भावतः कायः ॥ ३५२८ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
| ॥१३२६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160