Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 132
________________ विशेषाः ४१३३०॥ ननु 'सर्व सावधं योग प्रत्याख्यामि' इत्युक्तम् , का पुनरसौ सावधो योगः' इत्याहसं य सावज्जो जोगो हिंसाईओ तयं सयं सव्वं । न करोमि न कारेमि य न याणुजाणे करतपि ॥३५३९।। स च सावधो योगो हिंसा-नृत स्तेयादिको मन्तव्यः, तकं सर्वमपि स्वयं न करोमि, न कारयाम्यन्यैः, एवं नानुजानामि कुर्वन्तमपीति ।। ३५३९ ।। अथेदं प्रत्याख्यानं यति-गृहस्थयोदेन व्यवस्थापयशाहकरणतिगेणेकिकं कालतिगे तिघणसंखियमिसीणं । सव्वं ति जओ गहियं सीयालसयं पुण गिहीणं ॥३५४०॥ अत्र 'न करोमि न कारयामि' इत्यादिकमेकैकं योगं मनःप्रभृतिना करणत्रयेण सह कालत्रिकं चारयेत् । ततश्च त्रयाणां यो घन: सप्तविंशतिलक्षणस्तत्संख्यकं भङ्गकसंख्यामाश्रित्य तत्संख्याप्रमाणमृषीणां साधूनाम् 'अवबुध्यते' इति शेषः । कस्मात् ? इत्याहयतः 'सर्व सावा योग प्रत्याख्यामि' इति साधोः प्रत्याख्यानं गृहातम्, ततस्तत्पत्याख्यानभङ्गकानामेतत्संख्याप्रमाणता । असर्वसा वद्ययोगपत्याख्यायिना पुनहिणां प्रत्याख्यानस्य सप्तचत्वारिंशदधिकं भङ्गकशतं विज्ञेयमिति । इयमत्र भावना-'त्रिविधं त्रिविधेन' इत्यनेन सर्वसावधयोगप्रत्याख्यानादर्थतः साधुप्रत्याख्यानस्य सप्तविंशतिर्भङ्गाः सूचिताः, ते चवं भवन्ति-यद् न करोति तद् मनसा वाचा कायेन, एवं न कारयत्यपि मनसा वाचा कावेन, एवं न समनुजानीते च मनसा वाचा कायेन, इत्येवं वर्तमानकाळे नव भङ्गा भवन्ति, एवमतीतेऽपि नव भविष्यन्ति, भविष्यत्यपि नव, इत्येवं सप्तविंशतिर्भङ्गाः साधुपत्याख्यानस्य भवन्ति । गृहिणस्तहि कथं सप्तचत्वारिंशं भङ्गकशतमिति चेत् । उच्यते-गृही सावधं योगं न करोति, न कारयति, नान्यं समनुजानीत मनसा वाचा कायेन चे. त्येको भङ्गः। अथवा, न करोति न कारयति नानुजानीते मनसा वचसा च; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च अथवा, न करोति न कारयति, नानुजानीते मनसा; अथवा, वचसा; अथवा, कायेन अथवा, न करोलि, न कारयति मनसा वाचा कायेन अथवा, न करोति नानुजानीते त्रिपिरपि करणैः। अथवा, न कारयति नानुमानीते त्रिभिरपि करणैः; अथवा, न करोति न कारयति मनसा वचसा; अथवा, मनसा कायेन च; अथवा, वचसा कायेन च; अथवा, न करोति नानुजानीते मनसा वचसा; १ स च सावधो योगो हिंसादिकस्तत् स्वयं सर्वम् । न करोमि न कारयामि च न चानुजानामि कुर्धन्तमपि ।। ३५३९ ॥ २ करणनि कणकैकं कालत्रिके त्रिपनसंख्यातमृषीणाम् । समिति यतो गृहीत सप्तचत्वारिंशतं पुनZहिणाम् ॥३५४०।। ॥१३३०॥

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160