Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
हत्तिः
३५९३ ॥
॥१३५००
स्थितपक्षपाह नियुक्तिकारः
सव्वेसि पि नयाणं बहुविहवत्तव्वयं निसामित्ता । तं सव्वनयविसुद्ध जं चरण-गुणढिओ साहू ॥ ३५९३ ॥
न केवलमनन्तरोक्तनयद्वयस्य, किं तर्हि ? सर्वेषामपि स्वतन्त्रसामान्याविशेषवादिनां नाम-स्थापनादिवादिनां वा नयानां वक्तव्यता परस्परविरोधिनी प्रोक्तां निशम्य श्रुत्वा तदिह सर्वनयविशुद्ध सर्वनयसंमतं सर्वरूपतया ग्राह्यं यत् किम् ? इत्याह-यच्चरण गुणस्थितः साधुश्वरणं चारित्रक्रिया, गुणोऽत्र ज्ञानम् , तयोः स्थितश्चरण गुणस्थितः ज्ञान-क्रियाभ्यां द्वाभ्यामपि युक्त एव साधुर्मुक्तिसा. धको न पुनरेकेन केनचिदिति भावः तयाहि यत् तावज्ज्ञानवादिना प्रोक्तम् –'यद् येन विना न भवति तत् तनिवन्धनमेव' इत्यादि, तत्र तदविनाभावित्वलक्षणो हेतुरसिद्ध एव, ज्ञानमात्राविनाभाविन्याः पुरुषार्थसिद्धेः काप्यदर्शनात् । न हि दाह-पाकाद्यार्थिनां दहनादिपरिज्ञानमात्रादेव तत्सिद्धिर्भवति, किन्तु तदानयन-संधुक्षण-ज्वळनादिक्रियानुष्ठानादपि । न च तीर्थकरोऽपि केवलज्ञानमात्राद् मुक्तिं साधयति, किन्तु यथाख्यातचारित्रक्रियातोऽपि । तस्मात् सर्वत्र ज्ञान-क्रियाऽविनापाविन्येव पुरुषार्थसिद्धिः । ततस्तदविनाभावित्वलक्षणो हेतुर्यथा पुरुषार्थसिद्धे न निबन्धनत्वं साधयति तथा क्रियानिबन्धनत्वमपि, तामप्यन्तरेण तदसिद्धः, इत्यनैकान्तिकोऽप्यसाविति । एवं क्रियावादिना 'यद् यत्समनन्तरभावि तत् तत्कारणम्' इत्यादिपयोगे यस्तदनन्तरभावित्वकक्षणो हेतुरुक्तः, सोऽप्य. सिद्धः, अनैकान्तिकश्च; तथाहि-स्त्रीभक्ष्यभोगादिक्रियाकाळेऽपि ज्ञानमप्यस्ति, तदन्तरेण तत्र प्रवृत्तेरेवायोगात् , एवं शैश्यवस्थायां | सर्वसंवररूपक्रियाकाळेऽपि केवलज्ञानमस्ति, तदन्तरेण तस्या एवाप्राप्तेः । तस्मात् केवळक्रियानन्तरभावित्वेन पुरुषार्थस्य क्वाप्यसि
दरसिद्धो हेतुः । यथा च तदनन्तरभावित्वलक्षणो हेतुः क्रियाकारणत्वं मुक्त्यादिपुरुषार्थस्य साधयति तथा जानकारणत्वमपि, तद. प्यन्तरेण तस्य कदाचिदप्यभावादित्यनकान्तिकताप्यस्येति । तस्माज्ञान-क्रियोभयसाध्यैव मुक्त्यादिसिद्धि, उक्तं च प्रागिहापि
'हेयं नाणं कियाहीणं हया अन्नाणिणो किया । पासंतो पंगुलो दड्ढो घावमाणो य अंधओ ॥ १॥ संजोगसिद्धीइ फलं वयांते न हु एगचक्कंग रहो पयाइ । अंधो य पंगू य वणे समेच्चा ते संप उत्ता नगरं पविट्ठा ॥२॥ १ सर्वेषामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् सर्वनयविशुद्धं यवरण-गुणास्थितः साधुः ॥ ३५९३ ॥ २ हतं ज्ञानं क्रियाहीनं हताशानस्य क्रिया । पश्यन् पर्दग्धो धाश्चान्धकः ॥ १॥ संयोगसिद्ध्या फलं वदन्ति न चल्वेकचक्रण रथः प्रयाति । मन्धश्च पश्च वने समेत्य तो संप्रयुक्तो नगरं प्रविष्टौ ॥२॥
॥१३५००
Jain
Intion
For Personal and
Use Only
Loading... Page Navigation 1 ... 150 151 152 153 154 155 156 157 158 159 160