Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 137
________________ विशेषा ११३३५॥ अथवा, अन्यथा त्रिकालोपसंग्रह इत्याहसव्वं पञ्चक्खामि त्ति वा तिकालोवसंगहोऽभिमओ । अविसदाओ तस्सेव कत्त-किरियाभिहाणं ति ॥३५५२॥ अथवा, 'सर्व सावधयोग प्रत्याख्यामि' इत्यनेन सामान्याभिधानेन त्रिकालसंग्रहोऽभिमतः, अस्मादेव सामान्याभिधानादतीते संप्रति भविष्यति च काले सर्व सावद्ययोगं प्रत्याख्यामीति गम्यत इत्यर्थः, इदानीं तु 'करेंतं पि अन्नं' इत्यत्रापिशब्दात् तस्यैव कालत्रयस्थ संबन्धे कर्तृ क्रियाभिधानमाभिहतम्, यथा वर्तपानेकालेऽहं न करोमि, न कारयामि, कुर्वन्तमन्यं न समनुजानामि तथाऽपिशब्दादतीते भविष्यति च काले न करोमि न कारयामि कुर्वन्तमप्यन्यं न समनुजानामीवि प्रत्येकमवगन्तव्यमिति ॥ ३५५२ ।। ___अत्राक्षेपं परिहारं चाहएवं सव्वस्सासेसविसयओऽतीयणागएK पि । पावइ सव्वनिसेहो भण्णइ तं नाववायाओ॥ ३५५३ ॥ नन्वेवमुक्तप्रकारेणातीतेऽनागते च सर्वस्मिन्नपि काले आसेवितस्यासेविष्यमाणस्य च सर्वस्यापि सावद्ययोगस्य निषेधः पामोति । कुतः ? इत्याह – 'सब्यस्सेत्यादि' सर्वस्य सर्वशब्दस्याशेषविषयत्वादशेषविषयत्वेन पूर्वमिहर व्याख्यातत्या दित्यर्थः । न चैतद् युक्तम्, अतीतसावद्ययोगस्यासेवितत्वात्, आसेवितस्य च प्रत्याख्याने सृषावादादिदोषप्रसङ्गात्, भविष्यतश्च तस्य सर्वस्यापि प्रत्याख्यानदोषानुषनादिति । भण्यतेत्रोत्तरम् -तदेतद् न पामोति । कुतः इत्याह-अपवादाव-अपवादबाधितत्वादिति ॥३५५३॥ तमेव चापवादं दर्शयतिभूयस्स पडिक्कमणाभिहाणओऽणुमइमेतमागहियं । जावज्जीवग्गहणा एस्सस्स य मरणमज्जाया॥ ३५५४ ॥ 'तस्स भंते ! पडिकमामि' इत्यादिना प्रस्तुत एव सामायिकसूत्रे प्रतिक्रमणस्याभिधानतो भूतस्यातीतसावद्ययोगस्यानुमतिमात्रपेव प्रत्याख्येयत्वेनागृतीतम्, न पुनः सर्वोऽवि सावधयोगः, तदनुपतेश्च प्रत्याख्याने न कश्चिद् मृपावाद इत्यनन्तरमेव प्रागुक्तम् । यावज्जीवग्रहणात् पुनरेष्यतोऽपि सर्वसावधयोगस्य प्रत्याख्याने मरणमर्यादाऽपवादः, यावज्जीवमेव तं प्रत्याचक्षे न परत इति॥३५५४॥ १ सर्व प्रत्याख्यामीति वा त्रिकालोपसंग्रहोऽभिमतः । अपिशब्दात् तस्यैव कर्तृ-क्रियाभिधानमिति ॥ ३५५२ ॥ २ एवं सर्वस्याशेषविषयतोऽतीतानागतयोरपि । प्राप्नोति सर्वनिषेधो भण्यते तद् नापवादात् ।। ३५५३ ॥ ३ भूतस्य प्रतिक्रमणाभिधानतोऽनुमतिमात्रमागृहीतम् । यावजीवग्रहणादेष्यतश्च मरणमर्यादा ।। ३५५४ ॥ ॥१३३५॥ Per Personal Use One

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160