Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ० ॥१३३६॥
अथवा, अस्मिन्नेव सामायिकसूत्रे निरवशेषवचनोऽपि सर्वशब्दः प्रतिनियतत्वेन व्यवस्थापित इति दर्शयन्नाह - अहवा जावज्जीवग्गहणाओऽणागयावरोहोऽयं । संपइकालग्गहणं न करोमिच्चाइगहणाओ || ३५५५ ॥ भूयस्स पडिकमणाइणा य तेणेह सव्वसद्दोऽयं । नेओ विसेसविसओ जओ य सुत्तंतरेऽभिहियं ॥ ३५५६ ॥
व्याख्या - अथवा, सूत्र एव यावज्जीवग्रहणादनागतकालस्यायमवरोधः - सुदीर्घोऽप्यनागतकालो यावज्जीवग्रहणाद् नैयत्यविधानेन विशेषे व्यवस्थापित इत्यर्थ: । 'न करेमि न कारवेमि' इत्यादिवचनात् तु सांप्रतकालग्रहणमिति । ' तस्स भंते ! पडिक मामि' इत्यादिसूत्रावयवे च भूतस्यातीतस्य सावद्ययोगस्य प्रतिक्रमणादिना, आदिशब्दाद् निन्दा गर्हविधानेन च विशेषविषयतागर्भमती|तकालग्रहणमिति शेषः । येनैवम् तेनेह निरवशेषवचनोऽप्ययं सर्वशब्दो विशेषविषयो ज्ञेयः । ततश्च भविष्यत्कालसावद्ययोग इहजीवितभवपर्यन्त एवं निरवशेष सर्वशब्देन गृहीतः, अतीत सावद्ययोगोऽप्यनुपतिमात्रक एवं निरवशेषस्तेन क्रोडीकृत इति भावः । पूर्वमुत्सर्गतः कालत्रयगतः समस्तसावद्ययोगविषयं सर्वशब्दं कृत्वाऽपवादेन बाधा प्रोक्ता, इह तु सामायिकसूत्रे नियन्त्रणाद्वारेण प्रथमत एव देशतो निरवशेषविषयता सर्वसदस्य दर्शिता, इत्येतावन्मात्रो व्याख्याद्वयस्य विशेषोऽवसेय इति ।। ३५५५ ।। ३५५६ ।।
इत्थं चैतदङ्गीकर्तव्यम्, यतः सूत्रान्तरेऽप्यभिहितम्, किम् ? इत्याह
सेमईयं पडिक्कम पच्चु पण्णं च संवरेइति । पच्चक्खाइ अणागयमेवं इहई पि विन्नेयं ॥ ३५५७ ॥ सुबोधा, नवरमतीतप्रतिक्रमणेन तदनुमनिमात्रप्रत्याख्यानमुक्तम् । पच्चक्खाइ अणागयं' इत्यत्र 'यावज्जीवम्' इति शेषः । ततश्च देशतो निरवशेषविषयः सर्वशब्दः सिद्ध इति ।। ३५५७ ।।
'तस्स भंते !' इत्यादेर्व्याख्यानार्थमाह
Jain Educationa International
१ अथवा यावज्जीवग्रहणादनागतावरोधोऽयम् । संप्रतिकालग्रहणं न करोमीत्यादिग्रहणात् ।। ३५५५ ।।
भूतस्य प्रतिक्रमणादिना च तेनेह सर्वशब्दोऽयम् । ज्ञेयो विशेषविषयो यतश्च सूत्रान्तरेऽभिहितम् ।। ३५५६ ।। २ समतीत प्रतिक्रमति प्रत्युत्पन्नं संवृणोतीति । प्रत्याख्यात्यनागत मेवमिहापि विज्ञेयम् ।। ३५५७ ।।
For Personal and Private Use Onty
बृहद्वति
१३३६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160