Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०)
१३४५॥
एवं सुत्तागमो सुत्तन्नासो सुयत्यजुत्ती य । भणिया नयाणुजेोगदारावसरोऽधुणा, ते य ॥ ३५८४ ॥ अत्थानुगमंगं चिय तेण जहासंभवं तहिं चैव ! भणिया तहावि पत्थुयदारासुन्नत्थमुहं ॥ ३५८५ ॥
व्याख्या - एवमुक्तप्रकारेण सूत्रानुगमः, सूत्रालापकानां च व्यासो निक्षेपः सूत्रार्थयुक्तिश्च सूत्रस्पर्शक नियुक्तिश्चेत्यर्थः, भणिताः प्रतिपादिताः । अधुना नयलक्षणचतुर्थानुयोगद्वारस्यावसरः । ते च नया अर्थानुगमाङ्गमेव । तेन यथासंभवं तत्रैकार्थानुगमे तत्र तत्र स्थाने भणिताः, तथापि प्रस्तुतद्वाराशून्यार्थं तावत् किञ्चिदुनेष्ये भणिष्याम्यहमिति ।। ३५८४ ।। ३५८५ ॥
तत्र नैगमनयस्य संग्रह-व्यवहारयोरन्तर्भावात् शेषाणां संग्रहादीनां षण्णां नयानां संक्षिप्य मतं तावदुपदर्शयन्नाह - सामन्नमह विसेसो पच्चण्पणं च भावमेत्तं च । पइसदं च जहत्थं च वयणमिह संगहाईणं ॥ ३५८६ ॥
इह सामान्यमेवास्ति न विशेषा इति संग्रहस्य वचनम् । विशेषा एव सन्ति न सामान्यमिति व्यवहारस्य वचः । प्रत्युत्पन्नं च वर्तमानमेव वस्त्वस्ति न त्वतीतमनागतं चेति ऋजुमूत्रस्य वचनम् । नामादिनिक्षेपाणां मध्ये भावेन्द्रादिकं भावनिक्षेप एवास्ति, न नामादिनिक्षेपा इति शब्दनयस्य वचः । इन्द्र-शक्र पुरन्दरादिशब्दानां प्रतिशब्दमन्यान्य एवार्थो वाच्यः, न स्वेक एवेति समभिरूढस्य वचः । यथार्थमेव स्वाभिधायकशब्दवाच्यमर्थं कुर्वदेव घटादिकं वस्तु भवति, नान्यथा, इत्येवंभूतनयस्य वचनम् । इत्युक्तप्रकारं संग्रहादीनां वचनं मतं संक्षेपेणावगन्तव्यमिति ॥ ३५८६ ।।
Jain Education International
१६९
ततः किम् ? इत्याह
या समारोह - पज्जब हियदुगम्मि । सेसेसु य संभवओ ताणं च परोप्परं कज्जो || ३५८७ ॥ एतेषां च संग्रहादिनयानां द्रव्यार्थिक पर्यायार्थिकनयद्वये समचतारोऽन्तर्भावः कार्यः । उक्तं च
१ एवं सूत्रानुगमः सूत्रन्यासः सूत्रार्थयुक्तिश्च । भणिता नयानुयोगद्वारावसरोऽधुना, ते च ।। ३५८४ ॥ अर्थानुगमाङ्गमेव तेन यथासंभवं तत्रैव । भणितास्तथापि प्रस्तुतद्वारा शून्यार्थमुन्नेष्ये ।। ३५८५ ।।
२ सामान्यमथ विशेषः प्रत्युत्पन्नं च भावमात्रं च । प्रतिशब्दं च यथार्थ च वचनमिह संग्रहादीनाम् ।। ३५८६ ॥
३ एतेषां समवतारो द्रव्याखिक पर्यवास्तिकद्विके । शेषेषु च संभवतस्तेषां च परस्परं कार्यः ।। ३५८७ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
।। १३४५।।
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160