Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 149
________________ विशेषा. वदत्ति ११३४७ अथवा, प्रकारान्तरेण व्यवहार-निश्चयनयस्वरूपमवसेयम् । कथम् ? इत्याहअहवेगनयमयं चिय ववहारो जं न सव्वहा सव्वं । सवनयसमूहमयं विणिच्छओ जं जहाभूयं ॥३५९०॥ अथवा, यत् किमप्येकैकस्यैव नयस्य मतं तद् व्यवहारः प्रतिपद्यते, नान्यत् । कुतः ? इत्याह-'जमित्यादि' यस्मात् सर्वथा सर्वैरपि प्रकारविशिष्टं सर्वनयमतसमूहमयं वस्त्वसौ प्रतिपत्तुं न शक्नोतीति शेषः, स्थूलदर्शित्वादिति । विनिश्चयस्तु निश्चयनयो यद् यथाभूतं परमार्थतो वस्तु तत् तथैव प्रतिपद्यत इति ॥ ३५९० ॥ अथवा, ज्ञान-क्रियानयद्वये संग्रहादीनां समवताररा, अतस्तत्स्वरूपमाहनाणाहीणं सव्वं नाणनओ भणइ किंव किरियाए ? । किरियाए करणनओ तदुभयगाहो य सम्मत्तं ॥३५९१॥ । भानाधीनमेव सर्वमैहिकामुष्मिकं मुखं, किमत्र क्रियया कर्तव्यम् । युक्तिश्चेहानन्तरमेव वक्ष्यति । करणनयस्तु क्रियानयो वक्ष्यमाणयुक्तरेव सर्वमैहिकामुष्मिकं सुखं क्रियाया एवाधीनमिति भणति । उभयग्राहश्चह सम्यक्त्वं स्थितपक्ष इति ।।३५९१॥ एतदेवाह नियुक्तिकारानायम्मि गिहियव्वे अगिहियव्वम्मि चेव अत्थम्मि । जइयव्वमेव इइ जो उवएसो सो नओ नाम ॥३५९२॥ ज्ञाननयमतेन तावदियं गाथा व्याख्यायते । तत्र 'नायम्मि त्ति' ज्ञाते सम्यक् परिच्छिन्ने ग्रहीतव्ये उपादेये, अग्रहीतव्येऽनुपादेये हेय इत्यर्थः, चशब्दो द्वयोरपि ग्रहीतव्या-ऽग्रहीतव्ययोतित्वानुकर्षणार्थे, उपेक्षणीयसमुच्चयार्थे वा । 'एच' इति गाथालङ्कार| माने । 'अस्थम्मि त्ति' अर्थत इत्यर्थः । स च द्विविध:-ऐहिक आमुष्मिकश्चेति । तत्रैहिकत्रिविधः-ग्राह्यः, अग्राह्यः, उपेक्षणीयश्च । तत्र ग्राशः सक्-चन्दना ऽङ्गनादिः, अग्रायोऽहिविष-कण्टकादिः, उपेक्षणीयस्तु तृण-पांशु-शर्करादिः। एवमामुष्मिकोऽपि ग्राह्यादिभेदात् त्रिविधः । तत्र प्रायः सम्यग्दर्शन चारित्रादिः, अग्राझो मिथ्यात्वाऽज्ञाना-ऽविरत्यादिः, उपेक्षणीयस्तु स्वर्गविभूत्यादिः । एवंभूतेऽर्थे यतितव्यमेव, इत्यत्रैवकारोऽवधारणे । तस्य च व्यवहितः प्रयोगः, यथा ज्ञात एवेति । तदयमर्थः-ग्राह्याऽग्राह्यो-पेक्षणीयेऽर्थे ज्ञात एव १ अथवैकनयमतमेव व्यवहारो यद् न सर्वथा सर्वम् । सर्वनयसमूहमयं विनिश्चयो यद् यथाभूतम् ॥ ३५९० ॥ २ सानाधीनं सर्व ज्ञाननयो भणति किंवा क्रियया । क्रियायाः करणनयस्तदुभयग्रहश्च सम्यक्त्वम् ।। ३५९१ ।। ३माते ग्रहीतव्येऽग्रहीतव्ये चैवार्थे । यतितव्यमेवेति य उपदेशः स नयो नाम ।। ३५९२ ।। ॥१३४ Jan Education For Personal and Price Use Only

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160