Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहदत्तिः ।
विशेषा
9.००.००
॥१३४१॥
व्याख्या-अथवा, समाप्तमस्तुतसामायिकपतिपत्तिक्रियस्तन्मालिन्यविशुद्धिदेतोस्तस्य सामायिकस्य येऽतिचारा मालिन्यप्रकारास्तेषां यद् निवर्तनादिरूपं क्रियान्तरम्, आदिशब्दाद् निन्दागर्दाक्रियान्तरपरिग्रहः, तदभिमुखः पुनरपि भदन्तशब्दमुच्चारयति 'विनेयः' इति शेषः । यच्चे हैव पुरा पूर्व निर्दिष्टं यथा गुरुमापृच्छय सर्वाण्यावश्यकानि कुर्याद् विनेयः । तदनेन पुनरपि भद न्तशब्दोच्चारणेन समर्थितं भवति । पूर्व ह्यनेन भदन्तशब्दोच्चारणाद् गुरुमापृच्छय सामायिकावश्यक प्रतिपन्नम्, इदानीं तु तदती. चारप्रतिक्रमणावश्यकं पुनरपि तदुच्चारणात् तमापृच्छय कुर्वता यथोक्तार्थः समर्थितो भवतीति । अथवा, 'भवतः पृष्ट्वा यत् पूर्व कर्तु मारब्धं सामायिकं तदिदानी कृतं समर्थितं भदन्त ! मया, इत्येवं सामायिकक्रियाप्रत्यर्पणवचनोऽयं भदन्तशब्दः । अनेन च गुरुमा पृच्छयारब्धानां सर्वासामपि क्रियाणामवसाने गुरोः प्रत्यर्पण निवेदनमवश्यं विधेयमित्येतद् भणितं भवति ॥३५६९।३५७०।३५७१।।
अथ 'पडिक्कमामि' इत्यादिक्रियाव्याख्यानार्थमाह'नेयं पडिकमामि त्ति भूयसावजओ निवत्वामि । तत्तो य जा निवत्ती तदणुमईओ विरमणं जं॥३५७२॥ निंदामि त्ति दुगुंछे गरिहामि तदेव तो कओ भेओ ? । भण्णइ सामण्णत्थाभेए इ8ो विसेसत्थो ॥३५७३॥ जह गच्छइ त्ति गो सप्पइ त्ति सप्पो समे वि गच्छत्थे । गम्मइ विसेसगमणं तह निंदा-गरहणत्थाणं ॥३५७४॥
व्याख्या-'प्रतिक्रमामि' इत्यस्य व्याख्यानं ज्ञेयम् । किम् ? इत्याह-'भूतसावद्ययोगाद् निवर्तेऽहम्' इति । प्रेरकः पृच्छतिभूतसावद्ययोगस्यासेवितत्वात् का नामेदानी ततो निवृत्तिः ? इत्याह-यत् तदनुमतेविरमणम् , न पुनस्तत्करण-कारणाभ्याम्, तयोरासेवितत्वेन विरमणायोगादिति । 'निन्दामि' इति कोऽर्थः ? 'जुगुप्से' आत्मानमतीतसावद्ययोगकारिणम्' इति संवन्धं वक्ष्यति । 'गर. हामि' इत्यनेनाप्येतदेवोक्तं जुगुप्स इति । आह-ततस्तर्हि कुतो निन्दा-गईयोरर्थतो भेदः, द्वयोरपि जुगुप्सार्थत्वात् । । भण्यतेऽत्रोत्तरम् , सामान्यार्थाभेदेऽपि विशेषार्थों विशेषवदर्थाभिधायक इष्टो गर्दाशब्द इति । यथा गच्छतीति गौः, सर्पतीति सर्पः, इत्यनयोः समानेऽपि गत्यर्थे द्वयोरपि विशेषवदेवं गमनं गम्यते प्रतीयते तथा निन्दा-गर्थियोरपि विशेषरूपत्वं वक्ष्यतीति ॥३५७२॥३५७३॥३५७४॥
१ ज्ञेयं प्रतिक्रमामीति भूतसावद्यतो निवर्ते । ततश्च या निवृत्तिस्तदनुमतेविरमणं यत् ।। ३५७२ ।। निन्दामीति जुगुप्से गहामि तदेव ततः कुतो भेदः ? । भण्यते सामान्यार्थाभेदे इष्टो विशेषार्थः ॥ ३५७३ ।। यथा गच्छतीति गौः सर्पतीति सर्पः समेऽपि गत्यर्थे । गम्यते विशेषगमन तथा निन्दा-गर्थियोः ।। ३५७४ ।।
॥१३४॥
Jain Education.in
For Personal and Price Use Only
draww.jainmibrary.org
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160