Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 131
________________ S विशेषा. ॥१३२६॥ तस्मात् करण योगपरिणामत्वाज्जीवस्य । स हि करण-योगपरिणामेन परिणपति । परिणामश्च परिणन्तुरनन्तरम् । अतः करणयोगात्मता जीवस्य गम्यते, कदाचित् कथाश्चिद् नयान्तराद् निश्चयलक्षणं नयान्तरमाश्रित्येति यतः समये सिद्धान्तेऽभिहितम् ॥३५३५॥ किम् ? इत्याह-- आया चेव अहिंसा आया हिंस त्ति निच्छओ एस । जो होइ अप्पमचो अहिंसओ, हिंसओ इयरो ॥३५३६॥ इहात्मा मनःप्रभृतिना करणेन हनन-घातना-ऽनुमतिलक्षणां हिंसां तन्नित्तिरूपामहिंसां च करोतीति व्यवहारः । अस्यां च गाथायां निश्चयनयमतेनात्मैव हननादिलक्षणा हिंसा, स एव च तन्निवृत्तिरूपाऽहिंसेत्युक्तम् । तदनेनात्मनः करणस्य योगलक्षणस्य कर्मणश्चैकत्वमुक्तं भवतीति ।। ३५३६ ॥ अत्र परप्रेयमाशय परिहरबाहआहेगत्ते कत्ता कम्मं करणं ति को विभागोऽयं । भण्णइ पज्जायंतरविसेसणाओ न दोसो त्ति ॥३५३०॥ आह परः-नन्वेवं त्रितयस्याप्येकत्वे कर्ता, कर्म, करणं चेति को विभागः ?-को भेदः । भण्यतेऽत्रोत्तरम्-पर्यायान्तरेण विशेषणं पर्यायान्तरविशेषणं तस्माददोषः । इदमुक्तं भवति-एक एव कर्ताऽऽत्मा व्यतिरिक्तैः कथञ्चिद् भिन्नैः कर्म-करणादिपर्यायान्तरैविशिष्यत इति नोक्तदोष इति ॥ ३५३७ ।। पूर्व भावितमपीदं पुनरपि स्मारयन्नाहएक पि सव्वकारगपरिणामाण्णन्नभावयामेइ । नाया नाणाणनो जह विष्णेयाइपरिणामं ॥ ३५३८ ॥ एकमपि घटादिकं वस्तु सर्वकारकपरिणामलक्षणमन्यान्यभावतामन्यान्यरूपतामेति, यथा ज्ञाता जीवो ज्ञानानन्यः सन् विज्ञेयादिपरिणाममेति । स एव हि स्वज्ञान उपयुज्यमानः कर्ता, करणभूतज्ञानानन्यत्वात् स एव च करणं, स्वयं संवेद्यमानस्तु स एव विज्ञेय इति सविस्तरेण प्रागुक्तमिति ।। ३५३८ ।। १ आत्मैवाहिंसाऽऽत्मा हिंसेति निश्चय एषः । यो भवत्यप्रमत्तोऽहिंसकः, हिंसक इतरः ।। ३५३६ ।। २ आहैकत्वे कर्ता कर्म करणमिति को विभागोऽयम् ।। भण्यते पर्यायान्तरविशेषणाद् न दोष इति ।। ३५३७ ॥ ३ एकमपि सर्वकारकपरिणामानन्यभावतामेति । नात्मा ज्ञानानन्यो यथा विज्ञेयादिपरिणामम् ॥ ३५३८ ॥ ॥१३२९॥ www.irnesbareण

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160