Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
हदृचि।
॥१३२४॥
जावजीवं पत्ते जावज्जीवाए लिंगवच्चासो । भावप्पच्चयओ वा जा जावज्जीवया ताए ॥ ३५१८ ॥
ननूक्तन्यायेन यावज्जीवमिति निर्देश प्राप्ते 'यावज्जीवया' इति निर्देशः किमर्थं भगवता सूत्रकृता विहितः ?' इति शेषः । अत्र परिहारमाह-'लिंगवचासो तिलिङ्गव्यत्ययोऽत्र भगवतोऽभिमतः, तनेत्थं निर्देशः कृत इत्यर्थः। अथवा, यावज्जीवशब्दाद् भावमत्यय उत्पाद्यते, ततश्चेत्थं भावप्रत्यये उत्पादिते या 'यावज्जीवता' इति निष्पद्यते, तया यावज्जीवतया 'प्रत्याख्यामि' इति संबध्यत इति ॥ ३५१८॥
नन्वित्थमपि 'यावज्जीवतया' इति प्राप्ते 'यावज्जीवया' इति कथं भवति ? इत्याह - जावजीवतया इति जावजीवाए वण्णलोवाओ। जावजीवो जीसे जावज्जीवाहवा सा उ ॥ ३५१९ ॥
'यावज्जीवतया' इति निर्देश प्राप्ते यत् 'यावज्जीवया' इत्युक्तम्, तत् तकारलक्षणवर्णलोपादिति द्रष्टव्यम् । तृतीयं परिहारमाह-अथवा, जीवनं जीवो यावज्जीवो यस्यां सा यावज्जीवति बहुव्रीहिस्तया 'यावज्जीवया' इत्येवं द्रष्टव्यमिति ।। ३५१९ ।।
अत्र विनेयपृच्छामुत्तरं चाहका पुण सा संबज्झइ पच्चक्खाणकिरिया तया सव्वं । जावज्जीवाएऽहं पञ्चक्खामीति सावजं ॥ ३५२० ॥
का पुनः पूर्वोक्तबहुव्रीहावन्यपदार्थे संबध्यते ? इत्याह-प्रत्याख्यानक्रियेति । तया यावज्जीवया प्रत्याख्यानक्रियया सर्व सावद्ययोगमहं 'प्रत्याख्यामि' इति संबन्ध इति ॥ ३५२०॥
परिहारान्तरमाइजीवणमहवा जीवा जावज्जीवा पुग व सा नेया। तीए पाययवयणे जावज्जीवाइ तइएयं ॥३५२१॥
१ यावज्जीवं प्राप्ते 'यावजीवया' लिङ्गव्यत्यासः । भावप्रत्ययतो वा या यावज्जीवता तया ।। ३५१८ ।। २ यावज्जीवतयेति 'यावज्जीवया' वर्णछोपात । यावजीवो यस्यां यावज्जीवाऽथवा सा तु ।। ३५१९॥ ३ का पुनः सा संबध्यते प्रत्याख्यानक्रिया तया सर्वम् । यावजीवयाऽई प्रत्याख्यामीति सावद्यम् ॥ ३५२०॥ ४ विनमथवा जीवा यावजीचा पुरेव साया । तया प्राकृतवचने यावज्जीवया तृतीयेयम् ।। ३१२१ ।।
8॥२३२४॥
For Personal
use only
MAayo
Loading... Page Navigation 1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160