Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 127
________________ विशेषा १३२॥ अथवा, जीवनं जीवेति स्त्रीलिङ्गाभिधायक एवायं शब्दः साध्यते, न तु जीव इति पुंलिङ्गाभिधायकः । ततश्च यथा पुरा पूर्व तथात्राप्यर्थ वाप्यर्थत्रयवृत्तिना यावच्छब्देन सह समासे सा यावज्जीवा ज्ञेया नद्यथा-यावत्परिमाणा जीवा यावज्जीवाएवं मर्यादा-ऽवधारणयोरपि समासः कार्यः, तया यावज्जीवया प्रत्याख्यामिः प्राकृतवचने च पर्यन्त एकारनिर्देशेन तृतीयेयमवसेयेति ॥ ३५२१ ।। __ अथ 'त्रिविधं त्रिविधेन' इत्यस्य व्याख्यानार्थमाहपच्चक्खामि त्ति मओ उत्तमपुरिसेगवयणओ कत्ता। तिणि विहा जस्स तओ तिविहो जोगो मओऽहिगओ॥३५२२॥ तं तिविहं बिइयाए पच्चक्खेयमिह कम्मभावाओ । तिण्णि विहा जस्स तयं तिविहं तिविहेण तेणं ति ॥३५२३॥ व्याख्या-इह 'प्रत्याख्यामि' इति वर्तमानाया उत्तमपुरुषैकवचननिर्देशात् कर्ताऽभिमतः । तिम्रो विधा विधानानि भेदा यस्य तकोऽसौ त्रिविधो मनो वाक्-कायव्यापारलक्षणो योग इहाधिकृतो मन्तव्य इति । तं त्रिविधं योगमिह सूत्रे प्रत्याख्येयत्वेन कर्मभावाद् द्वितीयया विभक्त्या 'निर्दिशति' इति शेषः । तदनेन 'त्रिविधम्' इति व्याख्यातम् । अथ 'त्रिविधेन' इति व्याचिख्यासुराह-'तिण्णी त्यादि' तिस्रो विधा भेदा यस्य तत् त्रिविधं 'करणम्' इति गम्यते, तेन त्रिविधेन करणेन 'प्रत्याख्यामि' इति प्रक्रमः ॥३५२२॥३५२३॥ ननु 'तेन' इत्येतावन्मात्रनिर्देशात् 'करणेन' इति कथं लभ्यते ? इत्याह-- तेणेति साधकतमं करणं तइयाभिहाणओऽभिमयं । केण तिविहेण भणिए मणेण वायाए काएणं ॥३५२४॥ 'तेन' इति तृतीयाविभक्त्यभिधानात् साधकतमं करणमाभिमतम् । अतस्तेन 'त्रिविधेन करणेन' इत्यनन्तरगाथायां व्याख्यातम् । केन पुनस्त्रिविधन करणेन ? इति विनेयेन भणिते पृष्टे सति सूत्रावयवमाह-'मणेण वायाए कारणं' इति ॥३५२४॥ अत्र मनाकरणव्याख्यानमाहमैणणं व मन्नए वाऽणेण मणो तेण दव्वओ तं च । तज्जोग्गपोग्गलमयं भावमणो भण्णए मंता ॥३५२५॥ १ प्रत्याख्यामीति मत उत्तमपुरुषैकवचनतः कर्ता । तिस्रो विधा यस्य सकस्त्रिविधो योगो मतोऽधिकृतः ॥ ३५२२ ।। तत् त्रिविधं द्वितीयया प्रत्याख्येयमिह कर्मभावात् । तिम्रो विधा यस्य तत् त्रिविधं त्रिविधेन तेनेति ॥३५२३।। २ तेनति साधकतमं करणं तृतीयाभिधानतोऽभिमतम् । केन त्रिविधेन भणिते मनसा वाचा कायेन ॥३५२४|| ३ मननं वा मन्यते वानेन मनस्तेन द्रव्यतस्तव । तद्योग्यपुगळमयं भावमनो भण्यते मन्ता ॥३५२५।। ॥१३२५ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160