Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 125
________________ विशेषा० बृहद्वतिः १३२३॥ पाठसिद्धा, नवरं 'इसीणं ति' ऋषीणां यतीनामिति । 'जसनामउ ति' यशोनामकर्मोदयादित्यर्थः ॥ ३५१४ ॥ नन्वेषां मध्यात् किं जीवितमिहाधिकृतम् ? इत्याहनरभवजीवियमहिगयं विसेसओ, सेसयं जहाजोगं । जावज्जीवामि तयं ता पच्चक्खामि सावज ॥ ३५१५ ॥ भवजीवितरूपं नरभवजीवितं मनुष्यभवजीवितं विशेषतोऽत्राधिकृतम्, मनुष्याणामेव चारित्रसामायिकाधिकारात, शेषं नामादिजीवितं यथायोगं यद् यत्र युज्यते तत् तत्र योजनीयम् । ततश्च स एव मनुष्यः प्रतिजानीते-यावदनेन नरभवजीवितेन जीवामि. तावत् तकं सावद्ययोगं प्रत्याख्यामीति ॥ ३५१५ ।। __ अथवा, यावच्छब्दस्यार्थमाहजावदयं परिमाणे मज्जायाएऽवधारणे चेइ । जावज्जीव जीवणपरिमाणं जत्तियं मि त्ति ॥ ३५१६ ॥ जावज्जीवमिहारेण मरणमज्जायओ न तं कालं । अवधारणे वि आवज्जीवणमेवेह न ओ परओ ॥ ३५१७ ॥ व्याख्या- इह यावदयं शब्दनिष्वर्थेषु वर्तते; तद्यथा-पस्मिाणे, पर्यादायाम्, अवधारणे चेति। तत्र परिमाणार्थ तावदाहयावज्जीवमिति । किमुक्तं भवति । यावद् मे जीवनपरिमाणमिहभवायुष्कस्य परिमाणं तावन्तं कालं प्रत्याचक्ष इति । मर्यादार्थमाइयावज्जीवमित्यादि । अत्र यावज्जीवमिनि किमुक्तं भवति । आरेण मरणमर्यादाया अर्वा प्रत्याचक्षे, न पुनस्तत्कालं प्रत्याख्यान| ग्रहणकाल एव, किन्तु मरणसीमां यावत प्रत्याख्यामीति । अवधारणेऽपि - यावदिहभवजीवितं तावदेव प्रत्याचक्षे, न तु परतः, देवाद्यवस्थायामविरतत्वे प्रत्याख्यानभङ्गप्रसङ्गात् । 'परतो मुत्कलम्' इति विधिरपि न कर्त्तव्यः, भोगाशंसादोषानुषङ्गादिति स्वयमेव द्रष्टव्यमिति ।। ३५१६ ।। ३५१७ ।। अत्राक्षेप-परिहारावाह-- १ नरभवजीवितमधिगतं विशेषत:, शेषकं यथायोगम् । यावजीवामि तत् तावत् प्रत्याख्यामि सावद्यम् ।। ३५१५ ।। २यावदयं परिमाणे मर्यादायामवधारण चेति । यावर्जवं जीवनपारमाणं यावद् मे इति ।। ३५१६।।। यावजीवमिहारण मरणमर्यादात्तो न तत्कालम् । अवधारणेऽपि यावजीवन मेवेह न तु परतः ॥३५१७॥ १३२३॥ For Personal use only

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160