Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 123
________________ विशेषा ॥१३२९॥ इहथवजीवितपर्यायविशेषितमित्यर्थ:-यावदिहभवजीवितविशिष्टो जीवस्तिष्ठति तावत् स्यास्याम्यहम्, न विहभवजीवितेऽपगत इति भावः ॥ ३५०८।। जीवद्रव्यग्रहणे तु को दोष: स्यात् ? इत्याहईहरा जीवजीवं ति जीवदव्वग्गहणे मयस्सावि । पच्चक्खाणं पावइ गहियमओ जीवियं तं च ॥ ३५०९ ॥ इतरथा 'यावज्जीवस्' इत्यत्राविशेषितजीवग्रहणे मृतस्यापि प्रत्याख्यानं मामोति, अविशेषितजीवद्रव्यस्य सर्वदैव भावात् । अतो जीवशब्देन जीवितमिह गृहीतम् । तच्च नामादिभेदभिन्नमित्युत्तरेण संबन्ध इति ॥ ३५०९ ॥ सानेव जीवितस्य नामादिभेदानाहनाम ठवणा दविए ओहे भव तब्भवे य भोगे य । संजम-जसम-संजमजीवियमिइ तविभागोऽयं ॥३५१०॥ नामजीवितम्, स्थापनाजीवितम्, द्रव्यजीवितम्, ओघजीवितम्, भवजीवितम्, तद्भवजीवितम्, भोगजीवितम्, संयमजीवितम्, यशाजावितम्, असंयमजीवितम्, इत्येप तस्य जीवितस्य विभागो भेदः ॥ इति द्वारगाथासंक्षेपार्थ इति ॥३५१०॥ अत्र नाम-स्थापनाजीविते सुगमे, अतो द्रव्यजीवितस्वरूपं विवरीषुराहदैव्ये हिरण्ण-भेसज्ज-भत्त-पुत्ताई जीवियनिमित्तं । जं दवजीवियं तं दव्वस्स व जीवियमवत्था ॥ ३५११॥ 'दब्वे त्ति' द्रव्यजीविते विचार्ये तद् द्रव्यजीवितं, यत् किम् ? इत्याह-'जति' यत् कनक-भेपज-भक्त-पुत्रादिकं जीवितनिमित्तं जीवितोपष्टम्भकारकम् । अथवा, सचित्ता वित्तभेदभिन्नस्य द्रव्यस्यैव ययाऽवस्थया 'जीवति पारदः' 'जीवति विपम्' 'जीवत्यभ्रकम्' 'जीवति लोहम्' इत्येवं ताम्र-सुवर्णादिष्वपि वाच्यम्, 'न पुनरेतदद्यापि मृतम्' इत्यादिव्यपदेशः प्रवर्तते सा विशिष्टा काचिदवस्था द्रव्यजीवितमुच्यत इति ।। ३५११ ॥ १ इतरथा यावजीवमिति जीवद्रव्यग्रहणे मृतस्यापि । प्रत्याख्यानं प्राप्नोति गृहीतमतो जावितं तच ।। ३२०९ ।। २ नाम स्थापना द्रव्यमोघो भवस्तद्भतश्च भोगश्च । संयम-यशो-संयमजीवितमिति तद्विभागोऽयम् ।। ३५१०॥ ३ द्रव्ये हिरण्य-भैषज्य-भक्त-पुत्रादि जीवितनिमित्तम् । यद् द्रव्यजीवितं तद् द्रव्यस्य वा जीवितमवस्था ।। ३५११ ।। ॥१३॥ १६६ Per Personal and Use Only

Loading...

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160