Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा० ॥१३०८ ॥
Jain Education fr
एत्थ भयंताई पागयवागरणलक्खणगईए । संभवओ पत्तेयं द-य-ग-वगाराइलोवाओ || ३४५५ ॥ हस्सेकारंतादेसओ य भंते त्ति सव्वसामण्णं । गुरुआमंतणवयणं विहियं सामाइयाईए ॥ ३४५६ ||
व्याख्या - अत्र भदन्तादीनाम्, आदिशब्दाद् भजन्त-भान्त-भ्राजन्त भ्रान्त भगवन्त भवन्त भयान्तपरिग्रहः, प्राकृतव्याकरणलक्षणगत्या यथासंभवं प्रत्येकं द-य-ग-वकाराद्यक्षर लोपात्, तथा इस्वैकारान्तादेशतश्च 'भंते त्ति' सर्वसामान्यं पदं 'निष्पद्यते ' इति शेषः । तत्र ‘भदन्त' इत्यत्र दकारस्य, 'भयान्त' इत्यत्र यकारस्य, 'भगवन्त' इत्यत्र गवकारयोर्लोपः कर्तव्यः, आदिशब्दाद् 'भजन्त ' इत्यादिषु काराद्यक्षराणां लोपो द्रष्टव्यः, 'भांत' इत्यादिषु भादीनां हस्वत्वादेशः, 'भंत' इति पदेऽवस्थिते अन्त एकारादेशः कर्तव्य इति । 'भन्ते' इत्येतच्च पदं गुर्वामन्त्रणवचनं सामायिक सूत्रस्यादी विहितमिति ॥ ३४५५ ।। ३४५६ ।।
'भदन्त' इति पदस्यामन्त्रणवचनतामेव भावयति -
आमंतेइ करेमि भंते सामाइयं ति सीसोऽयं । आहामंतणवयणं गुरुणो किंकारणमिणं ति ? ॥ ३४५७ ॥ ‘करेमि भंते ! सामाइयं' इत्येवं शिष्योऽयमामन्त्रयति गुरुम् । आह परः - ननु गुरोरामन्त्रणवचनमिदमादौ विहितम् इत्यत्र किं कारणम् ? इत्येतत् कथ्यतामिति ।। ३४५७ ।।
सूरिराह
अण्णइ गुरुकुलवासे वर्स गहत्थं जहा गुणत्थीह । निश्चं गुरुकुलवासी हविज्ज सीसो जओऽभिहिंयं ॥३४५८॥ नाणस्स हाइ भागी थिरतरओ दंसणे चरिते य । धन्ना आवकहाए गुरुकुलवासं न मुंचति ॥ ३४५९ ॥
१ अत्र भदन्तादीनां प्राकृतव्याकरणलक्षणगत्या । संभवतः प्रत्येकं दन्य-ग-वकारादिलोपात् ॥ ३४५५ ॥ ह्रस्वैकारान्तादेशतश्च 'भंत' इति सर्वसामान्यम् । गुर्वमन्त्रणवचनं विहितं सामायिकादौ ।। ३४५६ ||
२ आमन्त्रयति 'करोमि भगवन् ! सामायिकम्' इति शिष्योऽयम् । आहामन्त्रणवचनं गुरोः किंकारणमिदमिति ? || ३४५७ ॥ ३ भव्यते गुरुकुलबासे वसन् ग्रहार्थं यथा गुणार्थीह । नित्यं गुरुकुलवासी भवेत् शिष्यो यतोऽभिहितम् || ३४५८ ॥ ज्ञानस्य भवति भागी स्थिरतरको दर्शने चारित्र च । धन्या यावत्कथां गुरुकुलवासं न मुञ्चन्ति ।। ३४५९ ।।
For Personal and Private Use Only
बृहद्दीतः ।
॥१३०८/
www.jainelibrary.org
Loading... Page Navigation 1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160