Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 117
________________ विशेषा बृहद्वत्तिः । ॥१३१५॥ 62 नापसर्वम्, स्थापनासर्वम्, द्रव्यसर्वम्, आदेशसर्वम्, निरवशेषसर्वम्, तथा, सर्वधत्तासर्वम्, भावसर्वं च सप्तमम् । इति निर्यु क्तिगाथार्थः ॥ ३४८५॥ तत्र नाम स्थापनासर्व सुगमम्, द्रव्यस तु ज्ञ भव्यशरीरव्यतिरिक्तं व्याचिख्यासुराहकैसिणं दव्वं सव्वं तद्देसो वा विवक्खयाभिमओ। व्वे तद्देसम्मि य सव्वासव्वे च उभंगो ॥ ३४८६ ॥ सव्वासव्वे दव्वे देसम्मि य नायमंगुलिदव्वं । संपुण्णं देसोणं पव्वं पव्वेगदेसो य ॥ ३४८७ ॥ व्याख्या-इहाङ्गुल्यादिद्रव्यं यदा कृत्स्नं सर्वैरपि निजावयवैः परिपूर्ण विवक्ष्यते तदा सर्वमुच्यते । एवं तस्याङ्गुल्यादिद्रव्यस्य पर्वादिको देशो निजावयवपरिपूर्णत्वविवक्षया सर्वोऽभिमतः । वाशब्दोऽत्राषिशब्दार्थे व्याख्यातः । एतदेव चाङ्गुल्यादिद्रव्यं तदेशो वा यदाऽपरिपूर्णतया विवक्ष्यते तदा प्रत्येकमसर्वत्वं द्रष्टव्यम् । ततश्च द्रव्ये तदेशे च सर्वासर्वत्वेन विवक्षिते चतुर्भङ्गो भङ्गचतुष्टयं भवति तद्यथा-द्रव्यं सर्व देशोऽपि सर्वः, द्रव्यं सर्व देशोऽसर्वः, देशः सर्वो द्रव्यमसर्वम्, देशोऽसो द्रव्यमप्यसर्वमिति । अत्र द्रव्यस्य सर्वत्वेऽसर्वत्वे च देशस्यापि सर्वत्वेऽसर्वत्वे च यथाक्रमं ज्ञातमुदाहरणम् तद्यथा-अङ्गुलिद्रव्यं संपूर्ण विवक्षितं द्रव्यसत्रमुच्यते, तदेव देशोनं विवक्षितं द्रव्यासर्वमभिधीयते, पर्व पुनः संपूर्ण विवक्षितं देशसर्व विवक्षितम्, पबैंकदेशस्तु देशासर्वमिति ॥ ३४८६ ॥ ३४८७ ॥ उक्त द्रव्यसर्वम् ॥ अथादेशसर्वमाहआएसो उवयारो सो बहुतरए पहाणतरए वा । देसे वि जहा सव्वं भत्तं भुत्तं गओ गामो ॥ ३४८८ ॥ आदेश उपचारः, स च बहुतरे प्रधानतरे वा देशोऽपि सर्वतया प्रवर्तते, तद्यथा-परिगृहीतभक्तमध्याद् बहुतरे मुक्त सत्यादिश्यते-'सर्वमनेन भुक्तम्' इति । प्रधानतरादेशे च कतिपयपुरुषेषु गतेषु शेषेष्ववतिष्ठमानेष्वप्यादिश्यते लोके यथा 'गतः सर्वो ग्रामः' इति ॥ ३४८८ ।। १ कृत्स्नं द्रव्ये सर्व देशो वा विवक्षयाभिमतः । द्रव्ये तदेशे च सासर्वे चतुर्भङ्गी ॥ ३४८६ ।। सर्वासर्वे द्रव्ये देश च ज्ञातमकुलद्रव्यम् । संपूर्ण देशोनं पर्व पकदेशश्च ।। ३४८७ ।। २ आदेश उपचारः स बहुतरके प्रधानतर के वा । देशेऽपि यथा सर्व भक्तं भुक्तं गतो प्रामः ॥ ३४८८ ॥ ॥१३१ For Personal and Private Use Only

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160