Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 116
________________ विशेषा. ne बृहद्वात्तः। ॥१३१४॥ केकञ्यत्ययोपादानादुभयत्र वृदिभावाच्च सामायिकम् अथवा, सम्यगायो लाभः समायः, स एव सामायिकम् अथवा समस्य भावः साम्यम्, साम्यस्यायो निपातनात सामायः, स एव सामायिकामिति ।। ३४८२ ॥ ३४८२ ॥ अथवा, अन्यथा निरुक्तविधिरुच्यत इत्याहअहवा निरुत्तविहिणा सामं सम्मं समं च जं तस्स । इकमप्पए पवेसणमेयं सामाइयं नेयं ॥ ३४८३ ॥ अथवा, निरुक्तविधिना बहुव्युत्पत्तिकमेतत् सामायिक ज्ञेयं ज्ञातव्यमिति । कथम् ? इति । अत्रोच्यते- इकशब्दो देशीवचनः क्यापि प्रवेशार्थे वर्तते । आत्मोपमया परेषां दुःखस्याकरणं सामेह गृह्यते, तस्य साम्न इकं यदात्मनि प्रवेशनम्, नकारस्यायादेशनि. पातनात्, तत् सामायिकम् । तथा, सम्यग्दर्शन-ज्ञान चारित्रत्रयस्य परस्परं योजनं सम्यगिहोच्यते, निर्वाणसाधकत्वेन तद्योगस्यैव परमार्थतः सम्यग्रूपत्वात्, तस्य सम्यग्दर्शनादिरूपस्य 'सम्यग् इत्येतस्यात्मनि यदिकं प्रवेशनं, यकारादेरयादेशनिपातने सकारस्य च दीर्घत्वे, तत् सामायिकम् । तथा, राग-द्वेषमाध्यस्थ्यमात्मनः सर्वत्र तुल्यरूपेण वर्तनं सममुच्यते, तस्य समस्यात्मनि यदिकं प्रवेशनम्, समशब्दादयागमे सकारस्य दीर्घत्वे, तत् सामायिकमिति ॥ ३४८३ ।। अथ सर्वशब्दं व्याचिख्यासुराहकिं पुण तं सामइयं सव्वसावज्जजोगविरइ त्ति । सियए स तेण सव्वो तं सव्वं कइवहं सव्वं ? ॥३४८४॥ किं पुनस्तद् यथोक्तशब्दार्थ सामायिकम् ? इत्यत्राह-सर्वसावद्ययोगविरतिरिति । अथ सर्व इति का शब्दार्थः ? । उच्यते'मृ गतौ' इत्यस्य धातोः स्रियते स इति, स्त्रियतेऽनेनेति वौणादिके वप्रत्यले सर्वः पदार्थो, वस्तुनि तु वाक्ये तत् सर्व वस्त्विति भवति । कतिविधं पुनरिदं सर्व भवति ॥ इत्यष्टाशीतिगाथार्थः ॥ ३४८४ ।। अथ 'कतिविधं सर्वम् ? इति प्रश्नोत्तरमाहनाम ठवणा दविए आएसे चेव निरवसेस च । तह सव्वधत्तासव्वं च भावसव्वं च सत्तमयं १३४८५॥ १ अथवा निरुक्तविधिना साम सम्यक् समं च यत् तस्य । इकमात्मनि प्रवेशनमतत सामायिकं ज्ञेयम् ।। ३४८४ ॥ २ किं पुनस्तत् सामायिक सर्वसावद्ययोगविरतिरिति । सियते स तेन सर्वस्तत् सर्व कतिविध सर्वम् ? ।। ३४८५ ॥ ३ नाम स्थापना द्रव्यमादेशश्व निरवशेष च । तथा सर्वधत्तासर्व च भावसर्व च सक्षमकम् ।। ३४८५ । कककककककककक ४४०४०००००००... 4॥१३१४॥ Jain Educational For Personal and Use Only

Loading...

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160