Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 114
________________ विशेषा बृहद्वत्तिः । ॥१३१२॥ अथवा, भदन्तशब्दोऽयं नामन्त्रणार्थः, किन्तु सामायिकस्यैव विशेषणार्थ इति दर्शयन्नाहअहवा भंतं च तयं सामइयं चेइ भंतसामइयं । पत्तमलक्खणमेवं भंतेसामाइयं तं च ॥ ३४७४ ॥ भदन्तं च तत् सामायिकं च भदन्तसामायिक करोम्यहम्-कल्याणप्रापकं सुखावहं च यत् सामायिकं तदहं करोमि नान्यदि त्यर्थः । 'भंतेसापाइयं' इत्यत्र तु यदेवमेकारान्तत्वं तदेतदलक्षणमलाक्षणिकमतो लुप्यत इति । 'तं च त्ति' तच किमर्थमेवं विशिष्यते ? ।। ३४७४ ॥ किमन्यदपि सामायिक विद्यते ? इत्याहनामाइवुदासत्थं नणु सो सावज्जजोगविरई ओ । गम्मइ भण्णइ न जओ तत्थवि नामाइसब्भावो ॥ ३४७५ ॥ नाम-स्थापनादिसामायिकव्युदासार्थमिदमेवं विशिष्यते, नामादिसामायिकानां कल्याणप्रापकत्व-सुखावहत्वाभावात् , भदन्तविशेषणादू भावसामायिकमिह गृह्यत इति भावः । आह-नन्वसौ नामादिव्युदासः 'सावज जोगं पञ्चक्खामि' इत्यादिवचनात् सावघयोगविरतिर्गम्यते । न हि सावद्ययोगविरतिरूपाणि नामादिसामायिकानि भवन्तीति । भण्यतेऽत्रोत्तरम्-'न त्ति' न त्वद्वचो युज्यते, तत्रापि सावद्ययोगविरतौ नाम-स्थापनादिरूपसंपवात् । इदमुक्तं भवति-यदि भावसायद्ययोगविरतिरसौ गृह्यते, तदा भवेत् साध्यसिद्धिः, न चैतदस्ति, नियामकाभावात्ः भदन्तविशेषणे तु सामायिकस्येयमपि भावरूपा गम्यते, नामादिरूपसावद्ययोगविरतेर्भदन्तसामायि. करूपत्वायोगादिति ॥ ३४७५ ॥ अथवा, भंते' शब्दात् षष्ठी द्रष्टव्येति दर्शयन्नाहभंतस्स व सामइयं भंतेसामाइयं जिणाभिहियं । न परप्पणीयसामाइयं ति भंतेविसेसणओ ॥ ३४७६ ॥ अथवा, 'करेमि भंतेसामाइयं' इत्यत्र भदन्तस्य भगवतः संबन्धि सामायिकमई करोमीत्येवं च द्रष्टव्यम् । ततश्च 'भंते' इति १ अथवा भदन्तं च तत् सामायिकं चेति भदन्तसामयिकम् । प्राप्तमलक्षणमेवं 'भंत'सामायिकं तच ॥ ३४७४ ।। २नामादिव्युदासाथै ननु स सावद्ययोगविरतिस्तु । गम्यते भव्यते न यतस्तत्रापि नामादिसद्भावः ।। ३४७५ ।। ३ भदन्तस्य वा सामायिक भन्तेसामायिकं जिनाभिहितम् । न परप्रणीतसामायिकमिति भदन्तविशेषणतः ॥ ३४७६ ।। ॥१३१२॥

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160