Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 113
________________ ४००४ विशेषा. nिo ४१३११॥ अथवा, आत्मन आत्मजीवस्यामन्त्रणमिदम्-हे भो जीव ! सामायिक करोम्यहम् । कथम् । अवशेषक्रियाविसर्गतः सर्वा अपि क्रिया विसृज्येत्यर्थः । तच्चात्मामन्त्रणं सामायिकैकक्रियाया नियामक नियमार्थम्, तदुपयोगात् तस्यामेवैकस्यां सामायिककिया. यामुपयोगादिति ॥ ३४७० ।। एवं च सति किमुक्तं भवति ? इत्याहएवं च सव्वकिरियाऽसंवन्नया तदुवउत्तकरणं च । वक्खायं होइ निसीहियाओ किरिओवओगु व्व ॥३४७१॥ एवं च सति सर्वासामपि प्रत्युपेक्षणादिक्रियाणां परस्परमसंपन्नताऽन्योन्यमनावाधता, तस्यामेव मारब्धकक्रियायामुपयुक्तकरणं चात्मामन्त्रणेन व्याख्यातं विशेषेण कथितं भवति, यथा नैषधिक्या नैषेधिकरणेन बाह्यक्रियानिषेधतो वसत्यभ्यन्तरकियोपयोग एव कथितो भवत्येवमिहापीति ॥ ३४७१ ।। अथवा, जिन-सिद्धायामन्त्रणार्थोऽयं भदन्तशब्द इति दर्शयतिअहवा जहसंभवओ भदंतसद्दो जिणाइसक्खीणं । आमंतणाभिधाई तस्सक्खिजे थिरव्वयया ॥ ३४७२ ॥ गहियं जिणाइसक्खं मइ त्ति तल्लज्ज-गोरव-भयाओ। सामाइयाइयारे परिहरओ तं थिर होइ ॥ ३४७३ ॥ व्याख्या-अथवा, यथासंभवतो ये केचनातिशयज्ञानिनो जिन-सिद्धादयः संभवन्ति, तेषां जिनादीनां साक्षिणामामन्त्रणाभिधायी भदन्तशब्दः, 'भो भो जिनादयो भदन्ताः । युष्मत्साक्षिकं करोम्यहं सामायिकम् इति । तत्साक्षिकत्वे च सामायिककर्तुः स्थिरव्रतता भवतीति । कथम् ? इत्याह-जिनादिसाक्षिकं गृहीतं मया सामायिकम्, अतः परिपालनीयमेवेदम्, इत्यनया वासनया सामायिकातिचारान् परिहरतस्तस्य तत् सामायिकव्रतं स्थिरं भवति । कुतः ? इत्याह - 'तल्लज्जेत्यादि' तेषां जिनादीनां सत्का या लज्जा, तेषु च यद् गौरवं यो बहुमानः, यच्च तदीयं भयं तस्मादिति ॥ ३४७२ ॥ ३४७३॥ १११००००००००००००००००००ककककठठत १ एवं च सर्वक्रियासंपन्नता तदुपयुक्तकरणं च । व्याख्यातं भवति नैषेधिक्या क्रियोपयोग इव ॥ ३४७१ ।। २ अथवा यथासंभवतो भदन्तशब्दो जिनादिसाक्षिणाम् । आमन्त्रणामिधायी तत्साक्ष्ये स्थिरवतता ॥ ३४७२ ।। गृहीतं जिनादिसाक्ष्ये मतिरिति तल्लज्जा-गौरव-भयात् । सामायिकातिचारान् परिहरतस्तत् स्थिरं भवति ॥ ३४७३ ।। ॥१३११॥ Jain Educationain For Personal and Price Use Only 18 w ww.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160