Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 111
________________ विशेषा बृहद्वति । ॥१३०॥ 'गीयावासो रई धम्मे अणाययणवजणं । निग्गहो य कसायाणं एवं धीराण सासणं ॥ ३४६० ।। रूपकत्रयं पाठसिद्धम् ॥ ३४५८ ॥ ३४५९ ॥ ३४६० ॥ अपिच, आवस्सयं पि निच्च गुरुपामूलम्मि देसियं होइ । वीसु पि हु संवसओ कारणओ जदभिसेज्जाए ॥ ३४६१ ॥ अनेन गुर्वामन्त्रणवचनेनावश्यक प्रतिक्रमणं गुरुपादमूल एव नित्य कर्तव्यमिति दर्शितं भवति, यद् यस्मादभिशय्यायां द्वितीयेवसतावित्यर्थः कारणतः कारणवशाद् विष्वपि पृथगपि संवसतः साधोः 'कल्पग्रन्थे इयं सामाचारी प्रोक्ता' इति शेषः । का पुनरियं कल्पसामाचारी ? इति । उच्यते-"जइ खुडुलगा वसही तो अन्नस्थ गंतूण करपया साहुणो वसंति" । तत्राचार्यसमीपे “पहिकमिउं पाउसियकालग्गहणोत्तरं कालं" मूत्रग्रहणार्थपौरुषी कृत्वाऽन्यस्यां गच्छन्ति; अथान्तरा वापदादिभयम्, ततोऽर्थपौरुषी दापयन्ति । ततः सूत्रपौरुषीपपि कालमपि तथा चरमं कायोत्सर्ग द्वितीयमाद्यं यावत् तिष्ठत्यपि सहस्ररश्मौ तत्र यान्तीति ॥३४६१॥ न केवलं प्रतिक्रमणम्, किन्त्वेवमेव शेषायपि सर्वाणि साधोरवश्यं कर्तव्यान्यावश्यकानि गुरूनापृच्छय कर्तव्यानीत्येतज्ज्ञा. पितमामन्त्रणवचनात् , येन सर्वेषामप्यावश्यकानां सामायिकमेवादौ मतम्, भदन्तश्च यस्मात् तदादौ निर्दिष्टस्तेनानुवर्तते तकोऽऽसौ सर्वे प्वप्यावश्यकेषु । कथम् ? इत्याह-इदमिदं च करोमि भदन्त ! इति । एतदेवाह एवं चिय सव्वावस्सयाई आपुच्छिऊण कजाई । जाणावियमामंतणवयणाओ जेण सव्वेसि ॥ ३४६२ ॥ सामाइयमाइमयं भदंतसहो य जं तदाईए । तेणाणुवत्तइ तओ करेमि भंते त्ति सव्वेसु ॥ ३४६३ ॥ गतार्थे ।। ३४६२ ।। ३४६३ ।। १ गीतावासो रतिधर्मेऽनायतनवर्जनम् । निग्रहश्च कषायाणामेतद् धीराणां शासनम् ॥ ३४६०॥ २ आवश्यकमपि नित्यं गुरुपादमूले देशितं भवति । विष्वगपि खलु संवसतः कारणतो यदभिशय्यायाम् ॥ ३४६१ ।। १ एवमेव सर्वावश्यकाम्यापुच्छय कार्याणि । आज्ञपितमामन्त्रणवचनादू येन सर्वेषाम् ॥ ३४६२ ।। सामायिकमादिमकं भदन्तशब्दश्च यत् तदादौ । तेनानुवर्तते सकः 'करेमि भंते ' इति सर्वेषु ॥ ३४६३ ॥ ॥१३०॥

Loading...

Page Navigation
1 ... 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160