Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
१३०७॥
Jain Educationa h
'किं चणमादाणं तब्भयं तु नासहरणाइओ नेयं । बज्झनिमित्ताभावा जं भयमाकम्हिमं तं ति ॥ ३४५१ ॥ असिलोगभयमजसओ दुज्जीवमाजीवियाभयं नाम । पाणपरिच्चायभयं मरणभयं नाम सत्तमयं ॥ ३४५२ ॥
व्याख्या - नाम-स्थापना- द्रव्य-क्षेत्र काल-भावभेदात् तत् षड्विधं भयम् । तत्राद्याः पश्च भेदाः सुव्याख्येयाः । भावभयं त्विह "ईह-परलोयायाणमकम्हा आजीव मरणमसिकोए" इति वचनात् सप्तधा भवति, तथा चाह - 'इहलोगाइ त्ति' । तत्रेहलोकजं भयं स्वभवतः स्वभवात्, यथा मनुष्यस्य मनुष्यात्, तिरश्वस्तिर्यग्भ्य इत्यादि । परलोकभयं तु परभवाद, यथा मनुष्यादेस्तिर्यगादिभ्यः । किश्चनं दैव्यादानमुच्यते तद्भयं तु न्यासहरणादिभ्यो ज्ञेयम् । यत्र तु बाह्यनिमित्ताभावादकस्मादेव भवति तदाकस्मिकम् । अश्लोकोऽश्लाघा तद्भयं त्वयश इति । आजीविकाभयं तु दुर्जीविकाभयम् । मरणं तु नाम यत् सप्तमं भयं तत् प्राणपरित्यागमयमिति ।। ३४५० ।। ३४५१ ।। ३४५२ ।।
अथान्तशब्दव्युत्पादनार्थमाह
अम गच्चाइसु तस्सेह अमणमंतोऽवसाणमेगत्थं । अमइ व जं तेणं तो भयरस अंतो भयंतो चि ॥ ३४५३ ॥ अम रोगे वा अंतो रोगो भंगो विणासपज्जाओ । जं भवभयभंगो सो तओ भवतो भयंतो य ।। ३४५४ ॥
व्याख्या - अमधातुर्गत्यादिष्वर्थेषु पठ्यते, तस्येद्दान्त इति रूपं भवति, अमनमन्तोऽवसानमित्येकार्थम् । अमतीति वा यस्मात् तेनान्त इति कर्तरि साध्यते, भयस्यान्तो भयान्त इति । अथवा, 'अम रोगे' रोगो भने, ततश्चान्तो रोगो भङ्गो विनाश इति पर्यायशब्दा एत इत्यर्थः । एवं च सति यस्माद् भवस्य भयस्य च भङ्गहेतुत्वाद् भङ्गोऽसौ गुरुस्ततो भवान्तो भयान्तश्चेति ।। ३४५३ ।। ३४५४॥ ननु भवद्भिर्व्युत्पादितानां भदन्तादिशब्दानां स्थाने कथं 'भंते' इति निष्पद्यते १ इत्याह -
१ किश्चनमादानं तद्भयं तु न्यासहरणादितो ज्ञेयम् । बाह्यनिमित्ताभावाद् यद् भयमाकस्मिकं तदिति ॥ ३४५१ ॥ अश्लोकभयमयशो दौर्जीव माजीविकाभयं नाम । प्राणपरित्यागभयं मरणभयं नाम सप्तमकम् ॥ ३४५२ ।।
२ इह-परलोकाऽऽदानान्य कस्मादाजीविका मरणमश्लोकः । ३ ज. 'द्रव्यमादा' ।
४ अम गत्यादिषु तस्येहाम नमन्वोऽवसानमेकार्थम् । अमति वा यत् तेनान्तो भयस्यान्तों 'भयंतो ' इति ।। ३४५३ ॥ अम रोगे वा अन्तो रोगो भङ्गो विनाशपर्यायः । यद् भवभयभङ्गः स ततो ' भवंतो 'भयंतो' च ॥ ३४५४ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१३०७॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160