Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
१३०५
Jain Educatora Interna
सुशब्दः प्रशंसार्थो निपातः, खानीन्द्रियाणि शोभनानि खानि यस्यासौ सुखः शुद्धेन्द्रियोऽभिमतः । किमुक्तं भवति १ - वश्येन्द्रियो निर्विकारेन्द्रिय इति यदुक्तं भवतिः अजितेन्द्रियस्त्वसुखोऽभिमत इति । अथवा, सुखयतीति सुखं तथ्यं निरुपचरितं निर्वाणमुच्यते, शेषं तु सांसारिकमुपचारतः सुखमभिमतम् । ततोऽस्य द्विविधस्यापि सुखस्य साधनं कारणं गुरुरित्यसौ सुखम्, कारणे कार्यो वचारात्, अन्ने भक्तं प्राणसंज्ञावदिति, 'अन्नं प्राणाः' 'दृष्टिस्तन्दुला:' इत्यादिवद् यथोक्तोभयरूपसुखहेतुत्वात् सुखो गुरुरित्यर्थः ॥ ३४४३ ।। ३४४४ ।।
अथवा, अन्यथा सुखशब्दार्थमाह
जं च सियं खेहितोऽणुग्गहरूवं तओ सुहं तं च । अभयाई तप्पयाया सुहमिह तब्भत्तिभावाओ || ३४४५ ॥
1
यद्वा, सुष्ठु इतं प्राप्तं स्वितं खेभ्य इन्द्रियेभ्यः स्वैरिन्द्रियैः करणभूतैरित्यर्थः, निपातनात् सुखमुच्यते । तत् कुतः प्राप्तम् ? इत्याह- ततो गुरुसकाशात् । तच 'सर्वे जीवा न हन्तव्याः' इत्यादिगुरुकृतानुग्रहरूपमभयप्रदानादि द्रष्टव्यम् । आदिशब्दाज्ज्ञानादिपरिग्रहः । गुरुप्रदत्तेनाभयप्रदानादिना जीवाः पञ्चभिरपीन्द्रियैः सुखमनुभवन्ति । अतस्तत्प्रदाताऽभयादिप्रदाता गुरुरपीह सुखम्, तद्भ क्तिभावात् सुखोपचार त्- कारणे कार्योपचारादित्यर्थः ॥ ३४४५ ॥
तदेवं 'करोमि भदन्त !' इति व्याख्यातम् । अथवा ' भन्ते ' इति नेदं 'भदन्त' इत्यामन्त्रणम्, किन्तु 'भदन्त ' इति कया व्युत्पत्या ? इत्याह
अहवा भय सेवाए तस्स भयंतो चि सेवए जम्हा । सिवगइणो सिवमग्गं सेन्वो य जओ तदत्थीणं ॥ ३४४६॥
अथवा, 'भज-श्रिञ् सेवायाम्' इति भजघातुः, तस्य भजते सेवत इति भजन्तः, तस्य संबोधनं हे भजन्त गुरो ! । स चेह कस्मात् ? | उच्यते – यस्मात् सेवते । कान् ? । शिवगतीन् सिद्धिगतिं प्राप्तान; अथवा, दर्शन-ज्ञान- चारित्रलक्षणं शिवमार्ग मोक्षमार्गम् । अथवा, सेव्यश्च यस्मादसौ तदर्थिनां मोक्षमार्गार्थिनाम्, तस्माद् भज्यते सेव्यत इति भजन्त इत्युच्यत इति ।। ३४४६ ॥
१६४
१ यच स्वितं खेभ्योऽनुग्रहरूपं ततः सुखं तच्च । अभयादि तत्प्रदाता सुखमिह तद्भक्तिभावात् ।। ३४४५ ।। २ अथवा भज सेवायां तस्य 'भयन्तो' इति सेवते यस्मात् । शिवगतीन् शिवमार्ग सेव्यश्च यतस्तदर्थिनाम् || ३४४६ ।।
For Personal and Private Use Only
बृहद्वृत्ति ।।
४ ॥९३०५॥
janelbrary.org
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160