Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 105
________________ विशेषा ઘરે રૂમ यज्ञदत्तादिप्रयोजककरणतया परिणतत्वात् करणम्, दिलणां दृश्यमानतया परिणतत्वात् कर्म, ताम्बूलादिदानग्रहणतया परिणतत्वात् संप्रदानम्, स एव निष्पन्नकटस्य मोचनेन परिणतत्वादपादानम्, कटक्रियाधारत्वेन च परिणतत्वादधिकरणमिति । एवमन्यत्रापि भावनीयम् । तेन कारकसंकरादिको न दोषः, विवक्षातश्च यस्मात् कारकाणि भवन्ति, तस्मात् कल्पनायामप्यदोष एवेति ॥ ३४३६ ॥ तथाहिकुंभो विसिज्जमाणो कत्ता कम्मं स एव करणं च । नाणाकारयभावं लहइ जहेगो विवक्खाए ॥ ३४३७ ॥ जह वा नाणाणन्नो नाणी नियओवओगकालम्मि । एगो वि तिसहावो सामाइयकारओ एवं ॥ ३४३८ ॥ व्याख्या-कुम्भो विशीर्यमाणो विशरणक्रियायाः कर्तृत्वेन विवक्षितः कर्ता भवति । स एव च विशरणक्रियाव्याप्यत्वेन विवक्ष्यमाणः कर्म संपद्यते, 'तेन घटपर्यायेण कृत्वा विशीर्यते' इति करणत्वेन विवक्ष्यमाणः स एव करणं संज्ञायते । एवं यथैकोऽपि पदार्थो विवक्षया नानाकारकभावं लभते, यथा वा मत्यादिज्ञानादनन्योऽभिन्नो ज्ञानी जीवो निजकात्मविषयः स्वसंवेदनरूपो य उपयोगस्तत्काल एकोऽपि त्रिस्वभावो भवति; तथाहि-स्वोपयोग उपयुज्यमानोऽसौ कर्ता भवति, संवेद्यमानत्वेन तु कर्म, करणभूतज्ञानानन्यत्वाच्च करणमिति । एवं सामायिककारक एकोऽपि विवक्षया कर्तृ कर्म-करणस्वभावो द्रष्टव्य इति ॥ ३४३७ ॥ ३४३८ ॥ तदेवं करणं व्याख्यातम्, तद्वयाख्याने च 'करोमि' इति सामायिकस्य प्रथमावयवो व्याख्यातः ॥ अथ 'भदन्त !' इति द्वितीयावयवं व्याचिख्यासुराहभेदि कल्लाण-सुहत्थो धाऊ तस्स य भदंतसद्दोऽयं । स भदंतो कल्लाणो हो य कल्लं किलारुग्गं ॥ ३४३९ ॥ तं तच्चं निव्वाणं कारण कजोवयारओ वावि । तस्साहणमणसद्दो सहत्थो अहव गच्चत्थो ॥ ३४४०॥ १ कुम्भो विशीर्यमाणः कर्ता कर्म स एव करणं च । नानाकारकभावं लभते यथैको विवक्षया ।। ३४३७ ॥ यथा वा ज्ञानानन्यो ज्ञानी निजकोपयोगकाले । एकोऽपि त्रिस्वभावः सामायिककारक एवम् ॥ ३४३८ ॥ २ भदि कल्याण-सुखार्थों धातुस्तस्य च भदन्तशब्दोऽयम् । स भदन्तः कल्याणः सुखश्च कल्यं किलारोग्यम् ॥ ३४३९॥ तत् तथ्य निर्वाणं कारणे कार्योपचारतो वापि । तत्साधनमणशब्दः शब्दार्थोऽथवा गत्यर्थः ॥ ३४४०॥ ॥१३०३॥ 10. For Personal and Use Only KAww.janabrary.org

Loading...

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160