Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१३०४॥
Jain Education h
कैल्लमणइ त्ति गच्छइ गमयइ व बुज्झइ व बोहयइ वत्ति । भणइ भणात्रेइ व जं तो कल्लाणो स चायरिओ ||३४४१॥ ६२३ बृहद्वृत्तिः । व्याख्या -' भदि कल्याणे सुखे च' इति भदिधातुः कल्याणार्थ ः सुखार्थश्च । तस्य मदिधातोर्भदन्त इत्यौणादिकमत्यये भदन्तशब्दोऽयं निष्पद्यते । ततः स्थितमिदं स भदन्तः कल्याणः सुखश्च । तत्र कल्याणशब्दव्युत्पादनार्थमाह-'कल्लं किलारुगं' उच्यत इति । तच्चारोग्यं तथ्यं निरुपचरितं निर्वाणमेवावगन्तव्यम् अथवा, कारणे कार्योपचारात् तत्साधनं दर्शन-ज्ञान चारित्रलक्षणं निर्वाणकारणमवसेयम् । अणशब्दस्तु अणधातोरुभयार्थत्वात् शब्दार्थो गत्यर्थो वा द्रष्टव्य इति । ततश्च कल्यं यथोक्तमारोग्यमणति गच्छत्यन्तर्भूतण्यर्थत्वेनापरान् गमयति, बुध्यते स्वयं, बोधयति वा परान् । शब्दार्थत्वेऽपि कल्यमणति स्वयं भणति, परैश्च भाणयति यस्मात् तस्मात् कल्याणः । स चेहाचार्यो गुरुबद्धव्य इति ।। ३४३९ ।। ३४४० ।। ३४४१ ।।
अथवा, कलधातुः शब्दार्थः संख्यानार्थो वा 'कल शब्द संख्यानयो:' इति धातुपाठात् तस्य 'कल्यम्' इति निपात्यते । ततश्च कल्यं शब्दं शब्दशास्त्रं संख्यानं वा गणितं यस्पादणति शब्दयति प्रतिपादयते बुध्यते बोधयति वा, तेन तस्मात् कल्याणो गुरुरित्येतदेवाह -
अहवा कल सद्दत्थो संखाणत्थो य तस्स कल्लं ति । सदं संखाणं वा जमणइ तेणं च कल्लाणो ॥ ३४४२ ॥ तार्था ।। ३४४२
सुखस्तर्हि कथमाचार्यः १ इत्याह-
पसंत्थाखाणिदियाणि सुद्धिंदिओ सुहोऽभिमओ । वस्सिंदिओ जमुत्तं असुहो अजिइंदिओऽभिमओ ॥ ३४४३ ॥ सुहमहवा निव्वाणं तच्चं सेसमुवयारओऽभिमयं । तस्साहणं गुरु त्तिय सुहमने पाणसण्ण व्व ॥ ३४४४ ॥
१ कल्यमणतीति गच्छति गमयति वा बुध्यते वा बोधयति वेति । भणति भाणयति वा यत् ततः कल्याणः स आचार्यः ॥ ३४४१ ॥ २ अथवा कल शब्दार्थः सख्यानार्थश्च तस्य कल्यमिति । शब्द संख्यानं वा यदणति तेन च कल्याण: ।। ३४४२ ॥
३ सुप्रशंसार्थः खानीन्द्रियाणि शुद्धेन्द्रियः सुखोऽभिमतः । वश्येन्द्रियो यदुक्तम सुखोऽजितेन्द्रियोऽभिमतः ।। ३४४३ ।। सुखमथवा निर्वाणं तथ्यं शेषमुपचारतोऽभिमतम् । तत्साधनं गुरुरिति च सुखमन्ने प्राणसंज्ञेव || ३४४४ ॥
For Personal and Private Use Only
॥१३०४॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160