Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 98
________________ विशेषा हवृत्तिः। गुरु शिष्ययोस्तद्विषयः सामायिकविषयो व्यापारः करणम् । स च गुरु-शिष्ययोस्तद्यापारश्चतुर्विधः, तच्चातुर्विध्यात् तत्स्वरूपं करणमपि चतुर्विधम् । तद्यथा-वाचयामि' इति गुरुपतिज्ञारूप उद्देशः, ततस्तत्मदत्तैव सूत्रस्य परिपाटीरूपा वाचना, तथा, समुद्देशः, अनुज्ञा चेति ॥ ३४१४॥ अत्राक्षेप-परिहारावाहनण भणियमणेगविहं पुव्वं करणमिह किं पुणो गहणं । तं पुव्वगाहियकरणं इदमिह दाणग्गहणकाले ॥३४१५॥ ननु पूर्व नामादिभेदतोऽनेकविध करणमुक्तम्, इह किं पुनरपि भेदकथनगर्भ करणग्रहणम् ? । अत्रोच्यते-तत् प्रागुक्तं पूर्व गृहीतस्य दानग्रहणकालादुत्तीर्णस्य सामायिकस्य सिद्ध करणमुक्तम्, इदं विह गुरु-शिष्ययोर्दान-ग्रहणकाले उद्देशादिविधिना साध्यं करणमुच्यत इति विशेषः ॥ ३४१५॥ विशेषान्तरमाहपुव्वमविसेसियं वा इह गुरु-सीसकिरियाविसेसाओ । करणावसरो वायं णेगंतत्थं तु वच्चासो ॥ ३४१६ ॥ अथवा, पूर्वमविशेषितं करणमुक्तम्, इह तु तदेव गुरु-शिष्योक्तिक्रियाविशेषाद् विशेषितमुच्यते । अथवा, अयमेव गुरु-शिष्योक्ति-प्रत्युक्तिकाले सामायिककरणस्य भणनावसरः । तत्र तर्हि किमित्युक्तम् ? इति चेत् । उच्यते-अनेकान्तार्थ व्यत्यासोऽस्थानभणनम् । न ह्ययं नियमो यदन्यत्र वक्तव्यं तदत्र नोच्यते, विचित्रा च भगवतः सूत्रस्य कृतिरिति ।। ३४१६॥ गतं 'करणं कति. विधम् ?' इति द्वारम् ॥ इदानीं 'कथम् । इति द्वारमभिधित्सुराहलब्भइ कह ति भणिए सुयसामइयं जहा नमोक्कारो । सेसाई तदावरणक्खयओ समओऽहवोभयओ ॥३४१७॥ 'कथं सामायिकं लभ्यते ?' इति भणिते सत्युच्यते-श्रुतसामायिकं तावद् यथा नमस्कारः पूर्वमुक्तस्तथा लभ्यते, नमस्कार १ ननु भणितमनेकविधं पूर्व करणमिह किं पुनर्ग्रहणम् । तत् पूर्वगृहीतकरणमिदमिह दानग्रहणकाले ॥ ३४१५ ।। २ पूर्वमविशेषितं वेह गुरु-शिष्यक्रियाविशेषात् । करणावसरो वायमनेकान्तार्थ तु व्यत्यासः ।। ३४१६ ॥ ३लभ्यते कथामिति भाणते श्रुतसामायिकं यथा नमस्कारः । शेषामि तदावरणक्षयतः शमतोऽथवोभयतः ॥ ३४१७ ।। ॥१३९६॥ For Personal and Price Use Only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160