Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वचिः ।
२
विशेषाभणितम् । ततश्चेह 'कथं सामायिक लभ्यते' इति का पुनः पृच्छा ?-पुनरुक्तत्वाद् नेयमिह युज्यत इति भावः ॥ ३४१८॥
परिहारमाह॥१२॥
भणिए खओवसमओ स एव लब्भइ कहमुवग्घाए । सो चेव खओवसमो इह कोर्स होज कम्माणं ? ॥३४१९॥
'भावे खोवसमिए' इत्यादिनापक्रमे 'क्षयोपशमादिहेतोः सामायिकं लभ्यते' इति भणिते पुनरुपोद्धाते ' स एव क्षयोपशमादिहेतुः कथं लभ्यते ?' 'मानुष्यादिसामग्रीतः' इत्युक्तम् । इह तु ' स एव क्षयोपशमादिः केषां कर्मणां भवेत् ?' इति विचिन्त्यत इति स्थानत्रयभणनस्यापि विषयविभाग इति ॥ ३४१९ ॥ तदेवं व्याख्यातं कृताकृतादिद्वारैः करणम् ॥ ३४१९ ॥
अथ 'करोमि भदन्त ! सामायिकम्' इत्यत्र विनेयपृच्छामाशङ्कयोत्तरमाहको कारओ करितो किं कम्मं जंतु कीरई तेणं । किं कारओ य करणं च होइ अन्नं अणन्नं ते ? ॥३४२०॥
कोऽत्र तावत् कारकः ? इति कथ्यताम् । सूरिराह-वतन्त्रत्वात् कुर्वन् समायिकस्य कर्ता । कर्म तर्हि किमत्र ? इत्याह-यत् तेन क्रियते । तुशब्दात् किं करणम् ? । उच्यते-मन:प्रभृति । एवमुक्ते सत्याह - ते तव सूर ! किं कारकः करणं च, चशब्दात् कम चेत्येतत्त्रयं परस्परमन्यद् भिन्नम्, अनन्यद् वाभिन्नं भवति ? इति ॥ ३४२० ।।
एतदेव विवृण्वन्नाह - को कारउ त्ति भणिए होइ करतो त्ति भण्णए गुरुणा। किं कम्मं ति य भणिए भण्णइ जं कीरए तेणं ॥३४२१॥ गतार्था ॥ ३४२१॥ अत्र 'का कारकः?' इत्यादित एवं प्रश्नमक्षममाणः परस्तावदाहकेणं कयं ति य कत्ता नणु भणियं तत्थ का पुणो पुच्छा ?। तविवरणं चिय इमं केणं ति व होज मा करणं ॥३४२२॥
१ भणिते क्षयोपशमतः स एव लभ्यते कथमुपोद्धाते । स एव क्षयोपशम इह केषां भवेत् कर्मणाम् ? ॥३४१९।। २ कः कारक: कुर्वन् किं कर्म यत्तु क्रियते तेन । किं कारकश्च करणं च भवत्यन्यदनन्यत् ते १ ॥३४२०॥ ३ कः कारक इति भणिते भवति कुर्वनिति भण्यते गुरुणा । किं कर्मेति च भाणिते भण्यते यत् क्रियते तेन ॥३४२१॥ ४ केन कृतमिति च कर्ता ननु भणितं तत्र का पुनः पृच्छा । तद्विवरणमेवेदं केनेति वा भूद् मा करणम् ॥ ३४२२ ।।
| ॥१२॥
Jun Educational
For Personal and Price Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160