Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 94
________________ विशेषा० ॥१२२॥ Jain Educationa h स्पष्टे, नवरं आलोचिते आलोकिते विज्ञाते यथा द्रव्यतो ज्ञातोऽसौ न नपुंसकादिः, क्षेत्रतस्तु विज्ञातो यथा नायमनार्यः, कालस्त्ववगतो यथा शीतोष्णादिना न क्लाम्यति, भावतस्त्ववबुद्धो यथा नीरोगानलसादिरूपः । ततश्चैवमालोकिते निश्चिते च दी क्षार्हस्य बालादिदोषरहितस्य गृहिणश्चारित्रसामायिकं दद्यादिति ।। ३३९७ ।। ३३९८ ।। ननु गृहस्थस्य सामायिक सूत्रार्थमुपसंपदित्यवगम्यते, श्रमणस्य तु व्रतग्रहणकाल एवाधीत सामायिकत्वात् कथं तदर्थमुपसंपद् भवेत् ? इत्याह सामाइयत्थसवणोवसंपया साहुणो हवेजाहि । वाघायमेसकालं च पइ सुयत्थं पि होजाहि ॥ ३३९९ ॥ यदा गुरुः सूत्रमात्रविदेव भवति, सूत्रं चादत्वा परलोकीभूतो भवेत् तदा तच्छिष्यस्य साधोः सामायिकार्थश्रवणनिमित्तमन्यत्रोपसंपद् भवेत् । अथवा, 'सुयत्थं पि होज्जाहि त्ति' व्याघातमेष्यत्कालं वा प्रति तौ प्रतीत्येत्यर्थः सूत्रमात्रार्थमपि साधोरन्यत्रो पसंपद् भवेत् । इदमुक्तं भवति ग्लानभावेन व्यन्तरोपसर्गादिना वा व्याघातेन पतिते विस्मृते सामायिकसूत्रे, एष्यति वा दुःषमाकाले प्रज्ञामान्यादसमाप्त सामायिकसूत्रमात्रा अपि साधवो भविष्यन्तो निगुर्वभावीभवनादिना कारणेन सर्वस्यापि सामायिकसूत्रस्य पठनार्थम्, असमाप्तस्य वा समाप्त्यर्थमन्यत्र साधोरुपसंपद् भवेदिति ॥ ३३९९ ।। तदेवं चारित्रसामायिकमङ्गीकृत्य तदर्थश्रवणार्थं तत्सूत्रमात्र पठनार्थं वा साधोरन्यत्रोपसंपदुक्ता ॥ अथवा श्रुतसामायिकमङ्गीकृत्य समस्तद्वादशाङ्गसूत्रार्थोभयार्थमप्युपसंपद् भवेदिति दर्शयन्नाह - सव्वं व बारसंग सुयसामइयं ति तदुभयत्थं ति । होज्जालोइयभावस्त देज्ज सुत्तं तदत्थं वा ॥ ३४०० ॥ अथवा, सर्वमपि द्वादशाङ्गं श्रुतसामायिकं भण्यते, अतस्तदुभयार्थं समस्तद्वादशाङ्गसूत्रार्थोभयनिमित्तमप्युपसंपद् भवेत् अत आलोचितभावस्य दत्तविशुद्धालेोचनस्य सूत्रमर्थं वा दद्यादिति ।। ३४०० ॥ उक्तमालोचनाद्वारम् || अथ विनयद्वारमभिधित्सुराह - १ सामायिकार्थश्रवणोपसंपत् साधोर्भवेत् । व्याघातमेष्यत्कालं च प्रति सूत्रार्थमपि भवेत् ।। ३३९९ ।। २ सर्ववा द्वादशाङ्गं श्रुतखामायिकमिति तदुभयार्थमिति । भवेदालोचितभावस्य दद्यात् सूत्रं तदर्थं वा ॥। ३४०० । For Personal and Private Use Only बृहद्वृत्तिः । ॥१२२॥ www.jaineibrary.org

Loading...

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160