Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 92
________________ विशेषा० १eon इहोदिष्ट एव गुरुणा सामायिके मैगमनयस्यानधीयानोऽपि शिष्यस्तकर्ता भवति । भाह-ननु कार्यस्य कर्ता भवति, कार्य च सामायिकमुदेशस्थले नास्ति, तत् कथं तस्यासौ फर्ता भवति ? इत्याह-'जमित्यादि' यस्मात् सामायिककारणमुदेशः, तस्मिंश्यो देशलक्षणे कारणे कार्यस्य सामायिकस्योपचारः क्रियत इति सामायिकस्य कर्तासौ भवतीति ।। ३३९१ ॥ संग्रह व्यवहारनयमतमाहसंगह-ववहाराणं पच्चासन्नयरकारणत्तणओ । उहिट्ठम्मि तदत्थं गुरुपामूले समासीणो॥ ३३९२ ॥ संग्रह व्यवहारयोरुद्दिष्टे सामायिके सत्पठनार्थ गुरुपादमूळे समासीनः शिष्यः प्रत्यासनतरकारणत्वात् पूर्ववत् तत्र सामायिककार्योपचारतः कर्ता भवतीति ॥ ३३९२ ।। ऋजुमूत्रमतमाहउज्जुसुयस्स पढंतो तं कुणमाणो वि निरुवओगो वि । आसन्नासाहारणकारण ओ सह-किरियाणं ॥ ३३९३ ॥ ऋजुसूत्रस्यानुपयुक्तोऽपि सामायिकं पठन् , तथा कुर्वस्तदर्थक्रियामनुतिष्ठन् सामायिकस्य कर्ता भवति, सामायिकासन्नतरा. साधारणकारणत्वात तद्विषयशब्द-क्रिययोरिति ॥ ३३९३ ॥ शब्दादिमतमाहसामाइओवउत्तो कत्ता सह-किरियाविउत्तो वि । सद्दाईण मणुन्नो परिणामो जेण सामइयं ॥ ३३९४ ॥ शब्दादिनयानां सामायिकोपयुक्तः शब्द क्रियावियुक्तोऽपि सामायिककर्ता भवति, पेन यस्माद् मनोझो विशुद्धपरिणाम एव तेषां सामायिकमिति ।। ३३९४ ।। ___ अथ पूर्वोक्तमुपसंहरन्नुत्तरग्रन्थसंबन्धनार्थमाह . . . . . . १प्रह-व्यवहारयोः प्रत्यासम्मतरकारणत्वतः । उद्दिष्टे तदथे गुरुपादमूले समासीनः ॥ ३३९२ ।। २ रजुसूत्रस्य पठस्तत्कुर्वाणोऽपि निरुपयोगोऽपि । आसन्नासाधारणकारणतः शब्द-क्रिययोः ॥ ३३९३ ।। ३ सामायिकोपयुक्तः कर्ता शब्द-क्रियावियुक्त इति । शब्दादीनां मनोज्ञः परिणामो येन सामायिकम् ॥ ३३९४ ।। ॥१३ ॥

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160