Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
॥१२१४॥
अथाजीवप्रयोगकरणमभिषित्सुराहअजीवाणं करणं नेयं पड-संख-सगड-थूणाणं । संघायण-पडिसाडणमुभयं तह नोभयं चेव ॥ ३३४१ ॥
अजीवानां करणं ज्ञेयम् । किं तत् ? इत्याह-संघातनं तन्तूनां पटे, परिशाटनमेव केवलं श्लक्षीकरणं शङ्खस्य, उभयं संघात-परिशाटलक्षणं तक्षण-कीलिकादियोगात् शकटस्य, 'नोभयं ति' संघात-परिशाटोभयनिषेधः स्थूणायाः, केवलोलकरणादिभावेन तदभावादिति ।। ३३४१ ॥
एवमन्यदपि यजीवप्रयोगादजीवानां क्रियते तत् सर्वमजीवकरणमिति दर्शयन्नाह - जें जं निज्जीवाणं कीरइ जीवप्पओगओ तं तं । वन्नाई रूव-कम्माई वावि तदजीवकरणं ति ॥ ३३४२ ॥
एवं यद्यदजीवानां वस्त्र काष्ठ-पाषाणादीनां जीवप्रयोगाजीवव्यापारेण कुसुम्भ-मनिष्ठादिभिर्वर्णादि क्रियते, पुत्तलिकादिकं रूपकर्मादि विधीयते, तत् सर्वमजीवकरणमिति । तदेवमुक्तं द्रव्यकरणम् ॥ ३३४२ ॥
अथ क्षेत्रकरणमभिधित्सुराहइह दव्वं चेव निवासमेत्तपज्जायभावओ खेत्तम् । भन्नइ नभं न तस्स य करणं निव्वत्तिओऽभिहियं ॥३३४३॥ होज व पज्जायाओ पन्जाओ जेण दव्वओऽणन्नो । उवयारमेत्तओ वा जह लोए सालिकरणाई ॥३३४॥ खेत्ते व जत्थ करणं ति खित्तकरणं तयं जहा सिद्धं । खित्तं पुण्णमिणं पुण्णकरणसंबंधमत्तेणं ॥ ३३४५॥
व्याख्या-इह द्रव्यमेव सद् नभः क्षेत्रं भण्यते । कृत इत्याह-'निवासेत्यादि' मात्रशब्दस्य व्यवहितः प्रयोगः, निवासपर्यायभावमात्रत इत्यर्थः । इदमुक्तं भवति-क्षि निवास-गत्योः' इति 'क्षियन्ति निवसन्ति जीवा अजीवाश्चात्र' इत्यौणादिके प्रत्यये क्षेत्रम्,
१ अजीवानां करणं ज्ञेयं पट-शङ्ख-शकट-स्थूणानाम् । संघातन-परिशाटनमुभयं तथा नोभयं चैव ।। ३३४१ ॥ २ यद् यद् निर्जीवानां क्रियते जीवप्रयोगतस्तत तत् । वर्णादि रूपकर्मादि वापि तदजीवकरणमिति ॥ ३३४२ ॥ ३ इह द्रव्यमेव निवासमाजपर्यायभावत: क्षेत्रम् । भण्यते नभो न तस्य च करणं निवृत्तितोऽभिहितम् ।। ३३४३ ॥ अवेद् वा पर्यायात पर्यायो येन द्रव्यतोऽनन्यः । उपचारमात्रता वा यथा लोके शालिकरणादि ॥ ३३४४ ॥ क्षेत्रे वा यत्र करणमिति क्षेत्रकरणं तदू यथा सिद्धम् । क्षेत्रं पुण्यमिदं पुण्यकरणसंबन्धमात्रेण ।। ३३४५ ॥
॥१२७४॥
Jan E
ine
For Personal and Price Use Only
T
ww.jainabrary.org
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160