Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 75
________________ ॥१२७३॥ आहारकशरीरसंघातः परिशाटश्च प्रत्येकं सामयिको भवति । स च सुगमत्वाद् गाथायां न लिखितः स्वयमेव तु द्रष्टव्य इति । विशेषा ० संघात परिशाटोभयकालस्तु द्विविधः - उत्कृष्टतो जघन्यतश्च | संघात - परिशाटोभयानां यदन्तरत्रिकमन्तरकालत्रयं जघन्यम्, तदेतत् सर्वमन्तर्मुहूर्त कालमानमवगन्तव्यम्ः केवलं तदेवान्तर्मुहूर्त लघु बृहच्च तारतम्येनावसेयमिति । आहारकशरीरं ह्यन्तर्मुहूर्त कालस्थितिकमेव भवति ; अतस्तत्संबन्धिनः संघात परिशाटोभयस्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तकालभावित्वं सिद्धमेवेति । एकदा कृतं चाहारकशरीरं प्रयोजनसिद्धौ परित्यज्य चतुर्दशपूर्वधरो जघन्यतोऽन्तर्मुहूर्तात् पुनरप्युत्पन्न - प्रयोजनस्तत् करोति, अतस्तद्गतसंघात परिशाभयानां भवति जघन्यमन्तर्मुहूर्त्तमिति । उत्कृष्टं त्वन्तरं त्रयाणामपि संघात परिशाटो भयानां किञ्चिन्न्यूनार्ध पुद्गलपरावर्तरूपं भवति । इदं च यच्चतुर्दशपूर्वधर आहारकशरीरं कृत्वा प्रमादात् प्रतिपतितो वनस्पत्यादिषु यथोक्तकालं स्थित्वा पुनरपि चतुर्दश पूर्वधरत्वमवाप्याहारकशरीरं करोति तस्य द्रष्टव्यमिति ।। ३३३८ ।। अथ तैजस-कार्मणविषयं संघातादिविचारं चिकीर्षुराह - Jain Education Inte 'तेया-कम्माणं पुण संताणोऽणाइओ न संघाओ । भव्त्राण होज्ज साडो सेलेसीचरिमसमयम्मि || ३३३९ ॥ उभयमणाइ-निहणं संतं भव्वाण होज केसिंचि । अंतरमणाइभावा अच्चतविओगओ सिं ॥ ३३४० ॥ व्याख्या - तैजस- कार्मणयोः पुनः संघातस्तावद् न भवत्येव, तयोरनादिकालात् संतानेन प्रवृत्तत्वात् संघातस्य तु गृह्यमाणशरीरमथमसमयविषयत्वादिति प्रागप्युक्तम् । सर्वपरिशाटोऽपि तैजस-कार्मणयोरभव्यानां न भवत्येव तस्य त्यज्यमानशरीरविषयत्वात्, तेषां च तत्र्यागासंभवात् । भव्यानां तु केषाञ्चित् शैलेशी चरमसमये भवेत् शाटः । स च सामयिको द्रष्टव्यः । उभयं तु संघात परिशाटलक्षणम्, आदिश्च निधनं चादि-निधने, न विद्येते आदि-निधने यस्य तदनादि निधनमेवाभव्यानां भवति, तत्यागाभावात् । भव्यानां तु केषाञ्चित् सिद्धिगमनसमये सान्तमुभयं भवेत्, तदानीं सर्वथा तत्यागादन्तरं 'सिं ति' एतयोर्न भवत्येव, अभव्यानामनादिनिधनत्वात् तयोः, भव्यानां तु सनिधनत्वेऽप्यत्यन्तवियोगेन त्यागात् पुनस्तग्रहणाभावात् त्यक्तस्य पुनर्ग्रहणे चान्तरकालसंभवादिति । ३३३९ ।। ३३४० ।। संघात परिशाटवक्तव्यता समाप्ता || तदेवमुक्तं सज्जीवप्रयोगकरणम् ॥ १६० १ तैजस-कार्मणयोः पुनः संतानोऽनादिको न संघातः । भव्यानां भवेत् शाटः शैलेशीचरमसमये ।। ३३३९ ।। भयमनादि-निधनं सान्तं भव्यानां भवेत् केषाञ्चिदपि । अन्तरमनादिभावादत्यन्तवियोगतो नैतयोः ॥ ३३४० ॥ For Personal and Private Use Only बृहद्वृत्तिः ॥ ॥१२७३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160