Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 82
________________ विशेषा० 11875011 Jain Education Int -वय-काय करिया पन्नरसविहा उ जुंजणाकरणं । सामाइयकरणमिणं किं नामाईण होजाहि ? ||३३६०॥ सत्यादिभेदतश्चतुर्विधं मनः, चतुर्विधं वचनम्, औदारिकामिश्रादिभेदात् सप्तविधः काय इत्येवमेतत्क्रियापि पञ्चदशविधा योजन - करणत्वेनावगन्तव्या । तदेवमवसितं भावकरणम् । तदवसाने चोक्तं नामादिभेदतः पद्विधमपि करणमिति । अथ विनेयः पृच्छतिननूक्तस्वरूपाणां नामादीनां षण्णां करणभेदानां मध्ये सामायिककरणमिदं किं भवेत् ? - कस्मिन् भेदेऽवतरेत् ? इत्यर्थः ॥ ३३३० || अत्र गुरुराह - सेव्वं पि जहाजोगं नेयं भावकरणं विसेसेणं । सुयबद्ध - सद्दकरणं सुयसामाइयं न चारितं ॥ ३३६१ ॥ इदं सामायिककरणं सर्वमपि षड्विधमपि नामादिकरणं ज्ञेयम् - सर्वेष्वपि नामादिभेदेष्ववतरेदित्यर्थः । कथं १ यथायोगं यथासंभवम् । तत्र सम्यक्क- श्रुत- तपः संयमादिगुणानां जीवद्रव्यपर्यायत्वात् पर्यायस्य च द्रव्यानन्यत्वाद् द्रव्यकरणमिदं भवत्येव । एवं नामादिकरणताप्यस्य यथासंभवं भावनीया । भावकरणं त्विदं विशेषतो भवति, सम्यक्त्वादिसामायिकानां जीवभावत्वादिति । आह- ननु भावकरणं पूर्व बहुभेदमुक्तम्, तत् किं सर्वेष्वपि भावकरणभेदेषु सर्वमपि सामायिकमवतरति । नेत्याह- 'सुएत्यादि ' श्रुतकरणं, तथा बद्धश्रुतकरणं, शब्दकरणं च श्रुतसमायिकमेव भवति, तस्यैवैतद्भेदरूपताघटनात् न तु चारित्रसामायिकम् तस्यैतद्रूपासंभवादिति ।। ३३६१ ॥ चारित्रसामायिकं तर्हि कस्मिन् भावकरणभेदेऽवतरति ? इत्याह गुणकरणं चारितं तव संजमगुणमयं ति काऊणं । संभवओ सुयकरणं सुपसत्थं जुंजणाकरणं ॥ ३३६२ ॥ कयाकयं केण कथं केसु व दव्वेसु कीरई वावि । काहे व कारओ नयओ करणं कइविहं कहं व ? ॥३३६३॥ १ मनो-वचन-कायक्रिया पश्चदशविधा तु योजनाकरणम् । सामायिककरणमिदं किं नामादीनां भवेत् ।। ३३६० ।। २ सर्वमपि यथायोगं ज्ञेयं भावकरणं विशेषेण । श्रुत-बद्ध-शब्दकरणं श्रुतसामायिकं न चारित्रम् ।। ३३६१ ।। ३ गुणकरणं चारित्रं तपः- संयमगुणमयमिति कृत्वा । संभवतः श्रुतकरणं सुप्रशस्तं योजनाकरणम् ||३३६२ ।। कृताकृतं केन कृतं केषु वा द्रव्येषु क्रियते वापि । कदा वा कारको नयतः करणं कतिविधं कथं वा ? ।। ३३६३ ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥१२८०॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160