Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा.
बृहद्वृत्तिः
॥१२८६॥
तथोत्तरोत्तरशुद्ध्या परिणमतः सामायिकगुणस्य परिणामान्तरात् परिणामोत्पत्तौ पूर्वपरिणामस्य व्यये विगमे, उत्तरपरिणामस्य तु विभवेऽप्युत्पादेऽपि परिणामसामान्यं नित्यमवतिष्ठते । ततः सामायिकगुणस्य त्रिरूपता । अस्माच्च त्रैरूप्यात् तस्य कृताकृतत्वम् : परगुणत्वाद् वा परगुणमाश्रित्य कृताकृतत्वमिति ॥३३७९॥३३८०॥
अथवा, अन्यथापि सामायिकस्य कृताकृतत्वं वक्तव्यम्, कथम् ? इत्याहदेव्वाइचउकं वा पडुच्च कयमकयमहव सामइयं । एगपुरिसाइओ कयमकयं नाणानराईहिं ॥ ३३८१ ॥
अथवा, द्रव्यादिचतुष्कं द्रव्य-क्षेत्र-काल-भावचतुष्टयं प्रतीत्य कृतमकृतं च सामायिक भावनीयम् । तथाहि-एक विवक्षितं पुरुषद्रव्यं प्रतीत्य कृतं सामायिकम्, सादिसपर्यवसितत्वात् । नानापुरुषद्रव्याण्याश्रित्य पुनरकृतम्, अनाद्यपर्यवसितत्वादिति । आदिशब्दाद् भरतैरावतक्षेत्राणि प्रतीत्य कृतम्, महाविदेहक्षेत्रेष्वकृतम्, अवच्छिन्नप्रवाहत्वेन नित्यत्वादिति । तथा, उत्सर्पिण्य-ऽवसर्पिणी
कालमाश्रित्य कृतम्, व्यवच्छिद्यमानत्वेनाऽनित्यत्वात् । नोउत्सर्पिण्यवसर्पिणीकालं त्वाश्रित्याकृतम्, अव्यवच्छिन्नत्वेन नित्यत्वात् । 9 भावं त्वेकपुरुषोपयोगं प्रतीत्य कृतम् , नानापुरुषोपयोगानाश्रित्य पुनरकृतम् । इत्येवं वा कृताकृतं सामायिकमिति ।। ३३८१ ॥ तदेवमुक्तं कृताकृतद्वारम् ॥
अथ 'केन कृतम्' इति द्वारं विवरीषुराहकण केयं ति य ववहारओ जिणिदेण गणहरेहिं च । तस्सामिणा उ निच्छयनयस्स तत्तो जओऽणनं ॥३३८२॥ पाठसिद्धा ॥ ३३८२॥ अत्राक्षेप-परिहारौ पाहनेणु निग्गमे कयं चिय केण कयं तं ति का पुणो पुच्छा । भण्णइ, स बज्झकत्ता इतरंगो विसेसेणं ॥३३८३॥
१ द्रव्यादिचतुष्क वा प्रतीत्य कृतमकृतमथवा सामायिकम् । एकपुरुषादितः कृतमकृतं नानानरादिभिः ॥ ३३८१ ।। २ केन कृतमिति च व्यवहारतो जिनेन्द्रेण गणधरैश्च । तत्स्वामिना तु निश्चयनयस्य तता यतोऽनन्यत् ॥ ३३८२ ॥ ३ ननु निर्गमे कृतमेव केन कृतं तदिति का पुनः पृच्छा ? । भण्यते, स बाह्यकर्ता इहान्तरङ्गो विशेषण ॥ ३३८३ ॥
॥१६॥
For Personal and
Use Only
mainsbrary.org
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160