Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२७६॥
बवं च बालवं चेव कोलवं तीइलो यणं । गरो हि वणियं चेव विट्ठी हवइ सत्तमा ॥ ३३४८॥
अस्य सप्तविधस्यापि चरस्य करणस्यानयनोपायमाहपैक्खतिहओ दुगुणिया दुरूवरहिया य सुक्तपक्खम्मि । सत्तहिए देवसियं तं चिय रूवाहियं रतिं ॥ ३३४९॥
कृष्णस्य शुक्लस्य वा प्रस्तुतपक्षस्य यास्तिथयोऽतिक्रान्तास्ता द्विगुणीक्रियन्ते । ततश्चागतराशेः सप्तभिर्भागो हियते । एवं च कृते यत् करणमागच्छति तत् प्रस्तुततिथौ कृष्णपक्षे दैवसिकं विज्ञेयम्, रूपाधिकं तु तदेव रात्रौ यथा कृष्णदशम्यां द्विगुणितायां विं. शतिर्भवति । ततः सप्तभिभीगे हृते षडवशेषा भवन्ति । तथा चेदं षष्ठं वणिजभिधानं दैवसिकं करणं कब्धम्, रूपे तत्र प्रक्षिप्ते रात्रिगतं विष्ट्यभिधानं सप्तमं करणं लभ्यते । एवमन्यत्रापि कृष्णपक्षे द्रष्टव्यम् । शुक्लपक्षे विशेषमाह-'दुरूवरहिया य सुक्तपक्खम्मि त्ति' शुक्लपक्षे द्विगुणिततिथिराशेद्वौं पात्येते, ततो देवसिकं करणमागच्छति, रूपाधिकं तु रात्रिगतं भवति; यथा शुक्लचतुर्थ्यां द्विगुणितायामष्टौ भवन्ति, द्वयोश्च पातितयोः षड् भवन्ति, सप्तभिश्च भागो न पूर्यते, ततस्तदेव दैवसिकं षष्ठं करणं लब्धम्, रूपे तु प्रक्षिप्त सप्तमं विष्थ्यभिधानं रात्रिगतं करणं लभ्यते । एवमन्यत्रापि शुक्लपक्षे भावनीयम् । इह च लोकप्रसिद्धकरणानयनोपायोऽन्योऽपि विद्यते, तद्यथा"तिहि दुगुणी, एकिहिं ऊणी, सत्चहिं हरणं, सेसं करणं" इति । अयमपि युक्तः, केवलमिह मास तिथयो द्विगुणयितव्याः, यच्चेहागच्छति तद् रात्रिकरणम्, रूपे तु पातिते दिवसगतं द्रष्टव्यमिति ॥ ३३४९ ॥ ___ अथ चतुर्विधं स्थिरकरणमाहसउणि चउप्पय नागं किंसुग्धं च करणं थिरं चउहा । बहुलचउद्दसिरत्तिं सउणं सेसं तियं कमसो ॥३३५०॥
कृष्णचतुर्दशीरात्रौ सदावस्थितं शकुनिनामकं करणं भवति, अमावास्यायां दिवसे चतुष्पदम, रात्रौ नागम्, प्रतिपदि दिवा किंस्तुघ्नम् । शेषरजनी दिनयोर्यथोक्तोपायतश्चरं करणमवसेयमिति ॥ ३३५० ॥
१ ववं च बालवं चैव कौलवस्तैतिलश्च । गरो हि वणिजश्चैव विष्टिर्भवति सप्तमी ।। ३३४८ ॥ २ पक्षतिथयो द्विगुणिता द्विरूपरहिताश्च शुक्लपक्षे । सप्तहृते देवसिकं तदेव रूपाधिकं रात्रौ ॥ ३३४९ ।। ३ तिथिर्द्विगुणा, एकेनोना, सप्तभिर्हरणं, शेष करणम् । ४ शकुनिश्चतुष्पादो नागः किंस्तुनश्च करणं स्थिरं चतुर्धा । बहुलचतुर्दशीरात्री शकुनिः शेष त्रिकं क्रमशः ॥ ३३५० ।।
॥१२७६॥
....४
For Personal and
Use Only
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160