Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 66
________________ विशेषा हद्वतिः। ॥१२६४॥ तत्रौदारिकशरीरस्य संघात-परिशाटोभयकालमाहखुड्डागभवग्गहणं तिसमयहीणं जहन्नमुभयरस । पल्लतियं समओणं उक्कोसोतरालकालोऽयं ॥ ३३१७ ॥ अत्र संघात-परिशाटोभयस्य जघन्यकाले प्रतिपाद्ये विग्रहेणोत्पादनीयः; अत एवाहदो विग्गहम्मि समया समओ संघायणाइ तेहूणं । खुड्डागभवग्गहणं सव्वजहण्णट्टिईकालो ॥ ३३१८ ॥ इह यत् पञ्चाशदधिकावलिकाशतद्वयमानमायुषो जघन्यस्थितिरूपं क्षुल्लकभवग्रहणमुच्यते, तथा च वृद्धोक्तम् "दो य सया छप्पन्ना आवलियाणं तु खुड्डभवमाणं । जियराग-दोस-मोहेहिं जिणवरहिं विणिद्दिढ ॥ १॥" इदं च क्षुल्लकभवग्रहणं द्वाभ्यां विग्रहसमयाभ्यामेकेन संघातसमयेन न्यून संघात-परिशाटलक्षणस्योभयस्य जघन्य स्थितिमान जघन्यतोऽपि संघात-परिशाटोभयमेतावन्तं कालं भवतीत्यर्थः । अत्राह कश्चित् - ननु विदिसाओ दिसिं पढमे बीए पविसेइ लोगमज्झम्मि । तइए उप्पि धावइ नाडीवहिं जायइ चउत्थे ॥१॥" इति वचनाद् यदाऽधनसनाड्या बहिर्देशादूर्ध्व लोके त्रसनाड्या बहिरेव निगोदादिजीवश्चतुर्भिः समयैरुत्पद्यते, तदा विग्रहगतावपान्तरालगतावाद्यास्त्रयः समयाः, चतुर्थस्तु संघातसमयः, इत्येवं चतुर्भिरपि समयैन्यूँनं क्षुल्लकभवग्रहणं संघात-परिशाटोभयस्य जघन्यकालः प्राप्यते, तत् किंमितीह त्रिभिरेव समयैन्यूनं क्षुल्लकभवग्रहणं जघन्यस्तत्काल उक्तः? । सत्यम्, किन्त्वस्यां चतुःसमयायां विग्रहगतौ य आद्यसमयः स इह परभवप्रथमसमयो न विवक्षितः, किन्तु पूर्वभव चरमसमय एव, पूर्वभवशरीरस्य तत्र मुच्यमानत्वात्, मुच्यमानं च मुक्तमिति व्यवहारनयमताश्रयणादिति । अथवा, त्रसजीवसंबन्धिन्यवहापान्तरालगतिर्विवक्षिता, त्रसजीवाश्वोत्कृष्टतोऽपि | तृतीयसमये उत्पत्तिस्थानं प्राप्नुवन्तीत्यदोष इति तावद् वयमवगच्छामः । तत्वं तु बहुश्रुता एव विदन्तीति । इह चैतानि क्षुल्लकभव १ क्षुल्लकभवग्रहणं त्रिसमयहीनं जघन्यमुभयस्य । पल्यत्रिक समयानं उत्कृष्टोऽन्तरालकालोऽयम् ॥ ३३१७ ॥ २द्वी विग्रहे समयो समयः संघातनादि तैरूनम् । क्षुल्लकभवग्रहणं सर्वजघन्यस्थितिकालः ।। ३३१८ ।। ३ द्वे च शते षट्पञ्चाशदावलिकानां तु क्षुल्लभवग्रहणम् । जितराग-द्वेष-मोहै जिनवरीर्वनिर्दिष्टम् ॥ १॥ ४ विदिशो दिशं प्रथमे द्वितीये प्रविशति लाकमध्ये । तृतीये उपरि धावति नाडीबहिर्जायते चतुर्थे ॥ १॥ ॥१२६४॥ JainEducationa.intern For Personal and Price Use Only Row.jainelibrary.org

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160