Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२६॥
उभयंतरं जहण्णं समओ निविग्गहेण संघाए । परमं सतिसमयाई तित्तीसं उयहिनामाई ॥ ३३३०॥
संघात-परिशाटोभयस्यैका समयो जघन्यमन्तरं भवति । क ? | निर्विग्रहेण संघाते सति । इदमुक्तं भवति-इहौदारिकशरीरी। आयुष्पर्यन्तं यावत् संघात-परिशाटोभयं कृत्वाऽग्रेतनभवेऽविग्रहेणोत्पद्यौदारिकस्यैव संघातं कृत्वा पुनरपि तदुभयमारभते । तस्य स एचैकः संघातसमयो जघन्यमुभयान्तरं भवति । परमं तूत्कृष्टमेतदन्तरं सह त्रिभिः समयैर्वर्तन्ते सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि सागरोपमाणि भवन्तीत्यर्थः ।। ३३३०॥
कदा पुनरेतानि प्राप्यन्ते ? इत्याह - अणुभविउं देवाइसु तेत्तीसमिहागयरस तइयम्मि । समए संघाययओ दुविहं साडंतरं वुच्छं ॥ ३३३१ ॥
देवादिषु, आदिशब्दादप्रतिष्ठाने च त्रयस्त्रिंशत्सागरोपमाण्यनुभूयेहागतस्य तृतीयसमये संघातयतो लभ्यते । अयमत्र भावार्थ:इह कश्चिद् मनुष्यादिः स्वभवचरमसमये संघात-परिशाटोभयं कृत्वाऽनुत्तरसुरेष्वप्रतिष्ठाने वा यदा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनर• पीह समयद्वयविग्रहेणागत्य तृतीयसमये औदारिकसंघातं कृत्वा तत उभयमारभते, तदा द्वौ विग्रहसमयावेकश्च संघातसमयो देवादि. भवसंबन्धीनि च त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टोभयान्तरे पाप्यन्त इति । तदेवमौदारिकविषयस्य संघातस्योभयस्य च जघन्यमुत्कृष्टं चा. न्तरमुक्तम् । अथ परिशाटस्य तदभिधित्सुराह-'दुविहमित्यादि' द्विविधं जघन्यमुत्कृष्ठं च शाटस्यान्तरं वक्ष्यत इति ॥ ३३३१ ॥
यथाप्रतिज्ञातमेवाहखुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाई संपुण्णा पुत्रकोडी य ॥ ३३३२ ॥
इहौदारिकशाटस्य चान्तरे जघन्यतः क्षुल्लकभवग्रहणं भवति । उत्कृष्टं तु तत् शाटान्तरं पूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि भवन्ति । अत्राह-नन्वेतद् नावगच्छामः, जघन्यपक्षे समयोनक्षुल्लकभवग्रहणप्राप्तेरुत्कृष्टपक्षेऽपि समयोनपूर्वकोट्यधिकत्रयस्त्रिंशत्सागरोपमावाप्तेरिति, तथाहि-यः क्षुल्लकभवग्रहणायुष्केषु वनस्पत्यादिघृत्पद्यते स 'परभवपढमे साडणं' इति वचनात् तस्य क्षुलकभव
१ उभयान्तरं जघन्यं समयो निर्विप्रहेण संघाते । परमं सत्रिसमयानि त्रयस्त्रिंशदुदधिनामानि ॥ ३३३० ।। २ अनुभूय देवादिषु त्रयस्त्रिंशतमिहागतस्य तृतीये । समये संघातयतो द्विविधं शाटान्तरं वक्ष्ये ॥ ३३३१ ।। ३ क्षुल्लकभवग्रहणं जघन्यमुत्कृष्टकं च त्रयविंशत् । तत् सागरोपमाणि संपूर्णा पूर्वकोटिश्च ।। ३३३२ ।। ४ गाथा ३३२. ।
॥१६॥
Jan Education inte XOX
For Personal and Price Use Only
RXww.jaineibrary.org
Loading... Page Navigation 1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160