Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२४७॥
Jain Education Intera
हिंसामि मुसं भासे हरामि परदारमाविसामि ति । चिंतेज्ज कोइ न य चिंतियाण कोवाइस भूई ॥३२५९ ॥ तहवि य धम्मा-धम्मोदयाइ संकप्पओ तहावि । वीयकसाए सवओऽधम्मो धम्मो य संथुणओ॥३२६०॥ व्याख्या- 'हिनस्मि हरिणादीन्, मृषां भाषेऽहम्, तद्भाषणाच्च वञ्चयामि देवदत्तादीन्, धनमपहरामि तेषामेव परदारानाविशामि निषेवेऽहम्' इत्यादि कश्चिच्चिन्तयेत् । न च तेषां चिन्तितानां हिंसादिचिन्ताविषयभूतानां हरिणादीनां तत्कालं कोपादिसंभूतिः कोपादिसंभवोऽस्ति; तथापि हिंसादिचिन्तकस्याधर्मः, दयादिसंकल्पतस्तु तद्वतो धर्मो भवति । इत्यावयोरविगानेन प्रसिद्धमेव, तथेहापि प्रस्तुते वतिकषायानप्यर्हत्-सिद्धादीन् शपमानस्याधर्मः, संस्तुवतस्तु धर्म इति किं नेष्यते १ इति || ३२५९ ।। ३२६० ।।
अथोपसंहार पूर्वकं प्रस्तुतमुपदर्शयन्नाह -
म्हा धम्मा-धम्मा जुत्ता निययप्पसाय- कोवाओ । धम्मत्थिणा पयत्तो कज्जो तो सप्पसायम्मि ॥ ३२६१ ॥ सो य निययप्पसाओऽवस्सं जिण - सिद्धपूयणाउ ति । जस्स फलमप्पमेयं तेण तयत्थो पयत्तोऽयं ॥ ३२६२॥ सुगमे, नवरं यस्य निजमनः प्रसादस्याप्रमेयमनन्तं फलं येनानन्तफलोऽसौ, तेन कारणेन तदर्थो निजमनः प्रसादार्थ ऐवादादिनमस्कारप्रयन इति ।। ३२६१ ।। ३२६२ ॥
अस्यैवार्थस्य साधनार्थं प्रमाणयन्नाह-
नाणामयते सइ पुज्जा कोव - पसायविरहाओ । निययप्पसायहेउं नाणाइतियं व जिण- सिद्धा ॥ ३२६३॥ निजमनःप्रसादहेतोः पूज्या जिन-सिद्धा इति प्रतिज्ञा, ज्ञानादिमयत्वे सति कोप- प्रसादविरहादिति हेतु:, ज्ञानादित्रिवदिति दृष्टान्तः । कोपादिविरहिता लेष्टु-काष्ठादयोऽपि विद्यन्ते, अतस्तद्वयवच्छोदार्थ 'ज्ञानादिमयत्वे सति, इति हेतोर्विशेषणमिति ॥३२६३॥
१ हिनस्मि मृष भाषे हरामि परदाराना विशामीति । चिन्तयेत् कोऽपि न च चिन्तितानां कोपादिसंभूतिः ॥ १२५९ ॥ तथापि च धर्मा-धर्मोदयादि संकल्पतस्तथेहापि । वतिकषायान् शपमानस्याधर्मो धर्मश्च संस्तुवतः ॥ ३२६० ॥ २ तस्माद्धर्माधर्मौ युक्तौ निजकप्रसाद - कोपाभ्याम् । धर्माधिंना प्रयत्नः कार्यस्ततः स्वप्रसादे ॥ ३२६१ ॥ स च निजकप्रसादोऽवश्यं जिन सिद्धपूजनादिति । यस्य फलमप्रमेयं तेन तदर्थः प्रयत्नोऽयम् ॥ ३२६२ ॥ ४ ज्ञानादिमयत्वे सति पूज्याः कोप- प्रसादविरहात् । निजकप्रसाद तो नादित्रिकमिव जिन-सिद्धाः ॥ ३२६३ ॥
For Personal and Private Use Only
३ 'क. ग. एवमर्ह' ।
बृहद्वृत्तिः ।
॥१२४७॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160