Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२४६॥
Jain Educationa Interna
PppppRK
कुंविओ हरेज्ज सव्वं दिज्जा धम्मं व तहय पावं ति । अकयागम- कयनासा मोक्खगयाणं पि चापडणं ।। ३२५६ ॥
व्याख्या - वाशब्दः मस्तावनायाम्, सा च कृतैव । तस्य धर्मस्य दया दान - प्रशम- ब्रह्मचर्याऽर्हदादिपूजादीनि साधनानि, तैः शून्यस्यापि यदि धर्मः परमसादमात्रादेवेष्यते, ततस्तर्हि य ईश्वरादिर्यस्य देवदत्तादेः प्रसन्नः स ईश्वरादिर्जगतोऽपि संबन्धिनं धर्ममपहृत्य तस्येवैकस्य देवदत्तादेः सर्वे दद्यात् तथा, कुपितः स एव तस्य देवदत्तादेः संबन्धिनं सर्व धर्ममपहरेत्, अधर्म वा सर्वमपि प्रयच्छेत् । तथा च सत्यकृतागम-कृतनाशौ प्राप्नुतः, एकस्याकृतयोरपि धर्मा-धर्मयोरागमात् अन्येषां तु स्वयं कृतयोरपि तयोर्नाशादिति । मोक्षगतानामपि च सिद्धानामेवं पतनं स्यात्, तदीयपूर्वसुकृतस्यान्यत्र संचरणात्, अन्यदीयाधर्मस्य च तेषु प्रक्षेपादिति ।। ३२५५ ।। ३२५६ ।।
किश्च परकीयकोप- प्रसादाभावेऽपि धर्मा-धर्मौ तवापि प्रसिद्धौ । कथमित्याह-
जैइ वीराग-दोसं मुणिमक्कोसिज्ज कोइ दुट्ठप्पा | कोव - प्पसायरहिओ मुणित्ति किं तस्स नाधम्मो ? || ३२५७॥ सवओ तस्साधम्मो जइ वंदंतस्स तो धुवं धम्मो । कोवप्पसायरहिए तह जिण - सिद्धे वि को दोसो ? ॥३२५८॥
व्याख्या - वीतावपगतौ राग-द्वेषौ यस्य तं वीतराग-द्वेषं मुनिं यदि दुष्टात्मा कश्चिदाक्रोशेत्, तदा 'वीतराग-द्वेषत्वात् कोपप्रसादरहितः स मुनिः' इत्येतावन्मात्रेण किं तस्याकोष्टुर्नाधर्मः स्यात् ? - ननु स्यादेवासौ, सकलशास्त्र लोकमतीतत्वादिति । ततश्च 'सव चि' मुनिं शपमानस्य तस्याक्रोष्टुर्यद्यधर्मोऽभ्युपगतस्त्वया, ततस्तर्ह्यन्यस्य कस्यापि शुभपरिणामस्य तमेव मुनिं वन्दमानस्य ध्रुवं निश्चितं धर्मोsor एव स्वपरिणाममात्र निबन्धनत्वस्येहापि समानत्वादिति । यदि नामैवं ततः प्रकृते किम् ? इत्याह- तथा तेनैवोक्तप्रकारेण कोप- प्रसादरहिते जिने सिद्धे च नमस्कर्तुर्निजशुभपरिणामवशाद् यथोक्तफलप्राप्तौ को दोषः १ न कश्चिदिति । । ३२५७|| ३२५८ ॥ दृष्टान्तान्तरेणाप्यईदादिभ्यः फलप्राप्तिं समर्थयन्नाह -
१ कुपितो हरेत् सर्व दद्याद् धर्ममिव तथा च पापमिति । अकृतागमकृतनाशौ मोक्षगतानामपि चापतनम् ॥ ३२५६ ॥ २ यदि वीतराग-द्वेषं मुनिमाक्रोशेत् कोऽपि दुष्टात्मा । कोप प्रसादराहतो मुनिरिति किं तस्य नाधर्मः १ ॥ ३२५७ ॥ शपमानस्य तस्याधर्मो यदि वन्दमानस्य ततो ध्रुव धर्मः । कोप- प्रसादरहितयोर्जिन सिद्धयोरपि को दोषः ? ॥ ३२५८ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
१।१२४६ ॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160