Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 56
________________ विशेषा ॥१२५४॥ Jain Education Inta जैत्तो तत्तो व सुभो होइ किमालंबणप्पभेण । जह नाणालंबणओ विवरीयाओ वि मो न तहा || ३२८७ ॥ ननु यतस्ततो वाऽऽलम्बनात् शुभपरिणामो भवतु, किमि शुभाशुभभेद आलम्बनप्रभेदेन किमिति शुभालम्बनादेव शुभः परिणाम इष्यते ? इति भावः । गुरुराह - 'जह नाणाळंत्रणउ चि' यथाऽनालम्बन आलम्बनरहितः शुभपरिणामो न प्रवर्तते तथा विपरीतादप्यशुभालम्बनादसौ न भवति, अन्यथा नीलादेरपि शुक्लादिज्ञानोत्पत्तिप्रसङ्गादिति ।। ३२८७ ॥ यदि विपरीतालम्बनाद् न शुभः परिणामः, तर्हि कुतोऽसौ भवति ? इत्याह किंतु भालंबणओ पाएण सुभो वि धम्मओ इयरो । जं होइ तं पयतो सुभासुभादाणवोसग्गो || ३२८८॥ सुगमा, नवरं शुभस्यालम्बनस्यादाने, अशुभस्य तु तस्य व्युत्सर्गे शुभपरिणामार्थिना प्रयत्नः कर्तव्य इति ।। ३२८८ ॥ प्रायोग्रहणस्य व्यवच्छेद्यमाह -- अन्नाणिणो मुणिम्मिविन सुभो दिट्ठो सुभो य निस्सीयले । जइ परिणामाउ च्चिय फलमिह किं पत्तचिंताए ? ॥३२८९ ॥ अज्ञानिनोऽभव्यस्य दूरभव्यस्य वा शुभालम्बनरूपे मुनावपि न शुभपरिणामो दृष्टः, शुभवासौ तस्य निःशीले नास्तिकाद दृष्टः, ततोऽनन्तरगाथायां 'सुभालंबणओ पाएण सुभो वि' इत्यत्र 'प्रायेण' इत्युक्तमिति भावः । प्रेरकः प्राह - यद्यत्रम्, तन्यत् प्रेर्यमापन्नम्, परिणामादेव भवद्भिस्तावत् फलमिष्यते, ततः किं पात्रा ऽपात्रचिन्तया । इति । अयपत्र भावार्थ:- यदि निःशीलेऽपि पत्रि शुभपरिणामो दृष्टः, 'शुभपरिणामाच्च शुभं फलं भवति' इति भवद्भिरपि प्रागसकृत् समर्थितम्, ततः किं सुशील- निःशील चिन्तया, निःशीलेsपि पात्रे शुभपरिणामदर्शनात्, तस्माच्च शुभफलभावात् ? इति ।। ३२८९ ॥ अत्रोत्तरमाह सुपरिणामनिमित्तं होज्ज सुहं जइ तओ सुहो होज्ज । उम्मत्तस्स व न ओ सो सुहो विवज्जासभावाओ ||३२९०|| १ यतस्ततो वा शुभो भवति किमालम्बनप्रभेदेन ? । यथा ज्ञानालम्बनतो विपरीतादपि स न तथा ।। ३२८७ ।। २ किन्तु शुभालम्बनतः प्रायेण शुभोऽपि धर्मत इतरः । यद् भवति तत् प्रयत्नः शुभाशुभादानव्युत्सर्गे || ३२८८ ।। ३ अज्ञानिना मुनावपि न शुभां दृष्टः शुभश्च निःशीले । यदि परिणामादेव फलसिंह किं प त्रचिन्तया ? ।। ३२८९ ।। ४ शुभ परिणामनिमित्तं भवत् शुभं यदि ततः शुभो भवेत् । उन्मत्तस्येव न तु स शुभां विपर्यास भावान् ।। ३२९० ।। For Personal and Private Use Only बृहद्वृत्तिः । ॥२२५४।। www.jainelibrary.org

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160