Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥१२५८॥
Jain Educatora International
सूत्रं यदुच्चरितं तत्र 'करोमि इति भणिते यतो धातु: 'डुक करणे' करणार्थे विहितः पठितस्तेन तस्मात् 'करोमि' इति वचनतस्तदर्थभूतं करणमत्र गम्यते । अतस्तदादौ करणं पदमिह दर्शितमिति ॥ ३३०० ।।
तत्रास्य करणपदस्य शब्दार्थ भेदांशाह
करणं किरिया भावो संभवओ वह छव्विहं तं च । नामं ठवणा दविए खित्ते काले य भावे य ॥ ३३०१ ॥
करणं क्रियेति भावाभावमात्रमिह वाच्यम्, 'संभवओ वेह त्ति' अथवा, संभवतो यथासंभव मिह शब्दार्थो वक्तव्यःः यद्यथा क्रियते तदिति करणम्, क्रियतेऽनेनेति करणम्, क्रियतेऽस्मादिति करणम्, क्रियतेऽस्मिन्निति वा करणमित्यादि । तच्च करणं नामादिभेदात् षड्विधमिति ।। ३३०१ ।।
तत्र नाम स्थापनाकरणवाह
नाम नामस्स व नामओ व करणं ति नामकरणं ति । ठवणा करणन्नासो करणागारो व जो जस्स ॥३३०२ ||
'नामं ति' नामैव करणं नामकरणमिति सामानाधिकरण्यं द्रष्टव्यम् । अथवा, नाम्नः करणं नामकरणम्, नामतो वा करणं नामकरणम्, 'करणं ति' अयं करणशब्दः प्रत्येकं योजनीयः, स च योजित एव । 'नामकरणं' इति द्वारपरामर्शः । 'ठवण त्ति' स्थापनाकरणमुच्यत इत्यर्थः । किं तत् ? इत्याह- करणस्य करणशब्दस्य न्यासः करणन्यासः, अथवा, यो यस्य करणस्य दात्रादेराकारः काष्ठादौ विन्यस्तः स स्थापनाकरणमिति ।। ३३०२ ॥
अथ द्रव्यकरणमभिधित्सुर्दव्यकरणशब्दस्य व्युत्पादनार्थमाह
तैं तेण तस्स तम्मि व संभवओ व किरिया मया करणं । दव्वस्स व दव्वेण व दव्वम्मि व दव्वकरणं ति ॥ ३३०३ ॥ क्रियते तदिति करणमिति करणशब्दः कर्मसाधनः क्रियतेऽनेनेति करणसाधना, तस्य द्रव्यस्य कृतिः करणमिति भावसाधनः,
१ करणं क्रिया भावः संभवतो वह षड्विधं तच । नाम स्थापना द्रव्यं क्षेत्रं कालच भावश्च ।। ३३०१ ||
२ नाम नाम्नो वा नामतो वा करणमिति नामकरणमिति । स्थापना करणन्यासः करणाकारो वा यो यस्य ।। ३३०२ ।। ३ तत् वेन तस्य तस्मिन् वा संभवतो वा क्रिया मचा करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ।। ३३०३ ।।
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२५८॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160