Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा
E/बृहदतिः ।
॥१२५६॥
ज्ञानस्य कारणतां याति, तेनं तस्मात् तत् पूज्य मिति ॥ ३२९३ ॥
तदेव कोप-प्रसादविरहादीन् पञ्चापि परोपन्यस्तहेतून् निराकृत्योपसंहरन्नाहतेणे सुहालंबणओ परिणामविसुद्धिमिच्छया निच्चं । कज्जा जिणाइपूया भव्वाणं बोहणत्थं च ॥३२९४॥
येनैवम्, तेन तस्मात् परिणामविशुद्धिमिच्छता कार्या विधेया जिनादीनां नित्यमेव पूजा। कुतः? इत्याह-शुपालम्बनतः शुभा. लम्बनरूपत्वात् । न केवलं स्वपरिणामविशुद्धिनिमित्तम्, भव्यजनावबोधनार्थं च विधेया जिनादिपूजा । तद्दर्शने ह्यनेके भव्याः प्रतिबु. ध्यन्ते, जिनधर्ममासादयन्ति, समासादिते च स्थिरीभवन्ति । अत एव तत्करण कारणा-ऽनुपोदनादिप्रवृत्तसंवेगातिशयात क्षपितकर्मणो. ऽन्तकृत्केवलिनो भूत्वाऽनन्तेन कालेनानन्ताः सिद्धान्त सिद्धाः श्रूयन्ते ।। इति सप्ततिगाथार्थः ।। ३२९४ ।।
॥ तदेवमवसितः पश्चनमस्कारः ।।
॥ तदवसाने च नमस्कारनियुक्तिः समाप्ता। अर्थ सामायिकमूत्रविषयां सूत्रस्पर्शकनियुक्तिमभिषित्सुराहकयपंचनम्मोक्कारो करेइ सामाइयं तु सोऽभिहिओ। सामाइयंगमेव य ज सो सेसं अओ वोच्छ ॥ ३२९५ ॥
कृतपश्चनमस्कार एव शिष्यः सामायिक करोतीत्यागमस्थितिः प्रागुक्तयुक्त्या सामायिकाङ्गमेव यस्मादसौ, ततः स पञ्चनमस्कारोऽभिहितः प्रतिपादितः, अतः परं शेष सामायिकसूत्रं वक्ष्ये व्याख्यास्यामि ॥ इति नियुक्तिगाथार्थः ।। ३२९५ ॥
भाष्यकारः प्राहइत्थ य सुत्ताणुगमो सुत्तालावयकओ य निक्खेवो । सुत्तप्फासियनिज्जुत्ती नया य पइसुत्तमाउज्जा ॥३२९६॥
अत्र च सूत्रव्याख्याने सूत्रानुगमाऽनुगमप्रथमभेदः, तथा सूत्रालापककृतश्च निक्षेपो निक्षेपतृतीय भेदः, तथा नियुक्त्यनुगमतृतीयभेदरूपा सूत्रस्पर्शकनियुक्तिः सूत्रस्पर्शकनियुक्त्यनुगम इत्यर्थः, नयाश्च प्रतिमूत्रमायोज्या इति ॥ ३२९६ ।।
१ तेन शुभालम्बनतः परिणामविशुद्धिमिच्छता नित्यम् । कार्या जिनादिपूजा भव्यानां बोधनार्थ च ।। ३२९४ ।। २ कृतपञ्चनमस्कार: करोति सामायिकं तु सोऽभिहितः । सामायिकानमेव च यत् स शेषमतो वक्ष्ये ।। ३२९५ ॥ ३ अत्र च सूत्रानुगमः सूत्रालापककृतश्च निक्षेपः । सूत्रस्पर्शकनियुक्तिर्नयाश्च प्रतिसूत्रमायोज्या: ।। ३२९६ ।।
॥१२५६॥
Jain Educationa.Inte
For Personal and Price Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160