Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 41
________________ विशेषा० ॥१२३९ ।। Jain Education Intern अत्र प्रतिविधानमाह - 'जिण-सिद्धा दिंति फलं पूयाए केण वा पवण्णमिणं । धम्माऽधम्मनिमित्तं फलमिह जं सव्वजीवाणं ॥ ३२३०॥ बृहद्वृत्तिः । ते यजओ जीवगुणा तओ न देया न वा समादेया । कयनासा ऽकयसंभोग-संकरे -गत्तदोसाओ ॥ ३२३१॥ व्याख्या - नन्वयमनुक्तो पालम्भः सर्वोऽपि पूर्वोक्तः, यस्मात् 'जिन-सिद्धाः पूजायाः फलं ददति' इति केनेदं प्रपन्नम् १ | धर्मा-ऽधर्मनिमित्तमेव हि यस्मात् स्वर्ग-नरकादिकं फलमिह सर्वजीवानामिति । तौ च धर्मा-धर्मों यतो जीवगुणौ ततो न कस्यापि देय दातव्यौ, नापि कुतश्चित् समादेयौ ग्राह्यौ, ज्ञानादिगुणवत् । कुतः ? इत्याह- 'कयनासेत्यादि' यदि होते जिन-सिद्धाः कुपिताः सन्तः कस्यापि धर्ममपहरेयुः, अधर्मे च प्रयच्छेयुः, तदा कोपविषयभूतस्य प्राणिनः कृतस्य धर्मस्य नाशः, अकृतस्य चाधर्मस्यागमः स्यात्, प्रसन्ना वा यदि कस्याप्याकस्मिकं धर्म प्रयच्छेयुः, अधर्म चापहरेयुः, तदाऽकृतस्य धर्मस्यागमः कृतस्य चाधर्मस्य नाशो भवेदिति । एवं यदा ते प्रसन्नाः कुपिता वा कस्यापि सम्बन्धिनौ धर्मा-धर्मावाच्छिद्यान्यस्य दद्युः, अन्यस्य सम्बन्धिनौ चापरस्य, तदा प्राणिनां परस्परं धर्मा-धर्मयोः संकरः, एकत्वं वा स्यात् । एवं स्वर्ग-नरकादिके धर्मा-धर्मफलेऽपि कृतनाशादिभावना कार्येति ॥ ३२३० ॥ ३२३१ ।। अपि च, नाणाबाहं मुक्खो पूयाफलं जओऽभिमयं । तं नायपज्जयाओ देयं जीवाइभावो व्व ॥ ३२३२ ॥ ज्ञाने सत्यनाबाधस्य यत् सुखं तद्रूपो यो मोक्षः स एव यस्माद् नमस्कारलक्षणायाः पूजायाः परमार्थतो मुख्यं फलमभिमतम्, स्वर्गादेरानुषङ्गिकफलत्वात् । तच्च यथोक्तं सुखं न कस्यापि देयं दातुं शक्यम्, आत्मपर्यायत्वात्, जीव-चैतन्यादिभाववत् । ततश्च पूजाफलदाननिषेधे सिद्धसाधनमेवेति ।। ३२३२ ॥ यदि पूजाफलं न देयं तर्हि किं देयमिह भवेत् ? इत्याह १ जिन-सिद्धा ददति फलं पूजायाः केन वा प्रपन्नमिदम् । धर्मा-धर्मनिमित्तं फलमिह यत् सर्वजीवानाम् || ३२३० ॥ ते च यतो जीवगुणास्ततो न देया नवा समादेयाः । कृतनाशा ऽकृतसंभोग-संकरै- कत्वदोषेभ्यः ॥ ३२३१ ॥ २ ज्ञानानाबाधसुखं मोक्षः पूजाफलं यतोऽभिमतम् । तद् नात्मपर्यायाद् देयं जीवादिभाव इव ॥ ३२३२ ॥ For Personal and Private Use Only ॥१२३९॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160