Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 33
________________ विशेषा० ॥१२३१ ॥ Jain Education Interna नमस्कारः प्राप्नोतिः तथाहि - ऋषभा ऽजित संभवादिभ्यो नामग्राहं सर्वतीर्थकरेभ्यः, तथा सिद्धेभ्योऽप्येक-द्वि-त्रि- चतुष्पश्चादिसमयसिद्धेभ्यो यावदनन्तसमयसिद्धेभ्यः, तथा, तीर्थ-लिङ्ग-प्रत्येक बुद्धादिविशेषणविशिष्टेभ्य इत्यादिभिर्भेदैर्विस्तरतोऽनन्तभेदो नमस्कारः मानोति । यतश्चैवम् तस्मादमुं पक्षद्वयमप्यङ्गीकृत्य पश्चविधोऽयं नमस्कारो न युज्यते ।। ३२०१ ।। ॥ तदेवमुक्तमाक्षेपद्वारम् ॥ अथ प्रसिद्धिद्वारम् । तत्र प्रसिद्धिराक्षेपस्य प्रतिविधानमभिधीयते । इह चेदं प्रतिविधानम्- 'न संक्षेपो नापि विस्तरतः' इत्येतदसिद्धम्, संक्षेपत्वादस्य । अथ संक्षेपकारणवशात् कृतार्था ऽकृतार्थपरिग्रहेण सिद्ध-साधुमात्रक एवोक्त इति चेत् । तदयुक्तम्, कारणान्तरस्यापि सद्भावात् तथा चाह अरिहंताई नियम साहू साहू उ तेसु भएयव्वा । तम्हा पंचविहो खलु हेउनिमित्तं हवइ सिद्धो ॥ ३२०२ ॥ इहाईदादयो नियमात् साधवः, तद्गुणानामपि तत्र भावात् ; साधवस्तु तेष्वईदादिषु भक्तव्या विकल्पनीयाः, यतस्ते न सर्वेstoदादयः, किं तर्हि ?; केचिदर्हन्तः येषां तीर्थकर नामकर्मोदयोऽस्ति, केचित् तु सामान्यकेवलिनः अन्ये त्वाचार्या विशिष्टसूत्रार्थदेशकाः, अपरे तूपाध्यायाः सूत्रपाठकाः, अन्ये त्वेतदविशिष्टाः सामान्यसाधव एव शिक्षकादयो न पुनरर्हदादयः । तदेवं साधूनामदादिषु व्यभिचारात् तनमस्करणेऽपि नार्हदादिनमस्कार साध्यस्य विशिष्टस्य फलसिद्धिः । ततश्च संक्षेपेण द्विविधनमस्करणमयुक्तमेव, अव्यापकत्वादितिः अत्र प्रयोगः -- साधुमात्रनमस्कारो विशिष्टोऽईदादिगुणनमस्कृतिफलप्रापणसमर्थो न भवति, तत्सामान्याभिधाननमस्कारकृत्त्वात्, मनुष्यमात्रनमस्कारवत् जीवमात्रनमस्कारवद् वेति । तस्मात् संक्षेपतोऽपि पञ्चविध एव नमस्कारो न तु द्विविधः, अव्यापकत्वात् ; विस्तरस्तु नमस्कारो न विधीयते, अशक्यत्वात् । तथा, 'मग्गे अविष्वणासो' इत्यादिको यः पूर्व पञ्चविधो हेतुरुक्तस्तन्निमित्तमप्ययं पञ्चविधः सिद्धो भवति ।। इति नियुक्तिगाथाद्वयार्थः ॥ ३२०२ ॥ अथ भाष्यकार आक्षेपविवरणमाह- निव्य-संसारिकया कयत्थलक्खणविहाणओ जुत्तो । संखेवनमुक्कारो दुविहोऽयं सिद्ध-साहूणं ॥ ३२०३ ॥ १ अहंदादयो नियमात् साधवः साधवस्तु तेषु भक्तव्याः । तस्मात् पञ्चविधः खलु हेतुनिमित्तं भवतु सिद्धः ॥ ३२०२ ॥ २ निर्वृत संसारिकृताकृतार्थ लक्षणविधानतो युक्तः । संक्षेपनमस्कारो द्विविधोऽयं सिद्ध-साधूनाम् ॥ ३२०३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । | ॥१२३१॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160