Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा ०
॥१२३०॥
Jain Education Internati
अथोपाध्यायशब्दार्थ भाष्यकारः प्राह
वगम्म जओऽहीयइ जं चोवगयमज्झयाविति । जं चोवायज्झाया हियस्स तो ते उवज्झाया ॥ ३१९९ ॥ उपगम्योपेत्य यतो येभ्योऽधीयते पठन्ति शिष्यास्त उपाध्यायाः, यच्च यस्मादुप समीपे गतं प्राप्तं शिष्यमध्यापयन्ति तत उपाध्यायाः, यस्माच्च स्वपरहितस्योपायध्यायका उपायचिन्तकास्ततस्त उपाध्याया इति ।। ३१९९ ॥
आचार्योपाध्याययोभाग्यकारो विशेषमाह
आयारदेसणाओ आयरिया विणयणादुवज्झाया । अत्थपदायगा वा गुरवो सुत्तस्सुवज्झाया ॥ ३२०० ॥
प्रकटार्थेव । इति गाथापञ्चकार्थः ।। ३२०० ॥ 'उवज्झाया' इत्यादिचतस्रो गाथाः पूर्ववत् ॥
॥ इत्युपाध्यायनमस्कारः समाप्तः ॥ साधुनमस्कारे दश निर्युक्तिगाथाः सुगमाः, गतार्थाश्चेति ॥ ॥ तदेवमवसितं वस्तुद्वारम् ॥
अथाक्षेपद्वारं वक्तव्यम्, तत्र परः प्राह-
विसंखेवो न वित्थारो संखेवो दुविहो सिद्ध-साहूणं । वित्थरओऽणेगविहो पंचविहो न जुज्जए तम्हा ॥ ३२०१ ॥
इह किल सूत्रं संक्षेप-विस्तरावतिक्रम्य न वर्तते । तत्र संक्षेपवद् यथा सामायिकसूत्रम्, विस्तरवद् यथा चतुर्दश पूर्वाणि । इदं पुनर्नमस्कारसूत्रमुभयातीतम्, यतोऽत्र न संक्षेपो नापि विस्तरः; तथा 'संखेवो दुविहो ति' यद्यय संक्षेपः स्यात् ततस्तस्मिन् सति द्विविध एव नमस्कारो भवेत् सिद्ध-साधुभ्यामिति, परिनिर्वृताईदादीनां सिद्धशब्देन ग्रहणात्, संसारिणां तु साधुशब्देनेति । संसारिणो हाईदा -ऽऽचार्यादयो न साधुत्वमतिवर्तन्ते । अथाऽयं विस्तरतः, तदप्युक्तम्, यतो विस्तरतोऽनेकविध
१ उपगम्य यतोऽधीयते यच्चोपगतमध्यापयन्ति । यच्चोपायध्यायका हितस्य ततस्त उपाध्यायाः ॥ ३१९९ ॥
२ आचारदेशनादाचार्या विनयनादुपाध्यायाः । अर्थप्रदायका वा गुरवः सूत्रस्योपाध्यायाः ॥ ३२०० ॥
३. नापि संक्षेपो न विस्तरः संक्षेपो द्विविधः सिद्ध-साधुभ्याम् । विस्तरतोऽनेकविधः पञ्चविधो न युज्यते तस्मात् ॥ ३२०१ ॥
For Personal and Private Use Onty
बृहद्वत्तिः ।
॥१२३०॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160