Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
विशेषा०
॥१२२३॥
Jain Education Internat
तथाऽनित्थस्थंमनियताकारमिति यदुक्तं भवति अनियताकार मित्युक्तं भवतीत्यर्थः । अत एव सिद्धस्यादेरारभ्य गुणाः सिद्धादिगुणास्तेषु प्रतिपाद्यमानेषु "से' न दीहे न हस्से न बट्टे" इत्यादिवचनेनागमे दीर्घत्वादीनां प्रतिषेधः कृतः । आह- यद्येवम्, सिद्धसंस्थानमभावः प्राप्नोति दीर्घत्वादिगुणैर्व्यपदेष्टुमशक्यत्वात् खरविषाणवृदिति । नैतदेवम् यस्मात् तदनित्थंस्थं पूर्वाकारापेक्षया भण्यते, सहि मूर्तत्वाद् दीर्घादिगुणैर्व्यपदिश्यते, न तु सिद्धजीवः, अमूर्तत्वात् । न चैतावता तत्संस्थानमभावः, मूर्तगुणानां दीर्घत्वादीनामभावेstयमूर्त गुणानां ज्ञानादीनां तत्र सद्भावादिति ।। ३१७२ ।। ३१७३ ।।
अत्र प्रेर्य - परिहारौ प्राह
नामुत्तरसागारो विन्नाणस्सेव, न कुंभनभसो व्व । दिट्ठो परिणामवओ नेयागारं च विन्नाणं ॥ ३१७४ ॥
ननु यदि सिद्धजीवोऽमूर्तस्तहिं तस्यानित्थंस्थ संस्थानरूपो यः कोऽप्याकारो भवद्भिरिष्यते स न प्रामोति, अमूर्तत्वादेव, विज्ञानस्येवेति । सुरिराह- नैतदेवम्, यतो दृष्टः परिणामवतोऽमूर्तस्याप्याकारः, यथा कुम्भनभसः - घटाकाशस्येत्यर्थः । इह यत् परिणामवत् तस्याकारो दृष्टः, यथा घटपरिच्छिन्नस्याकाशस्य, घटाकारपरिणामवांश्च सिद्धजीवः, ततस्तस्याप्यनन्तरभवशरीरपरिच्छिन्नस्यास्त्युपाधिमात्रेण शरीराकारः । विज्ञानस्यापि दृष्टान्तत्वेनोपन्यस्तस्य निराकारत्वमसिद्धम्, यतो ज्ञेयाकारं विज्ञानमिष्यत एव, अन्यथा नीलज्ञानादपि पीतादिसमस्तवस्तुपरिच्छेदप्रसङ्गात्, नीलस्यापि वाऽपरिच्छेदापत्तेः, निराकारत्वाविशेषादिति ॥ ३१७४ ॥
इतोऽपि ज्ञानं साकारम् । कुतः १ इत्याह
जीवाणन्नं च जओ देहागारो य सो तहा तं पि । परिमियवत्थुत्तणओ जुत्तं कुंभो व सागारं ॥ ३१७५॥ यतश्च यस्माद् जीवादनन्यदभिन्नं विज्ञानम्, स च जीवो देहेन सर्वतः परिच्छिन्नत्वाद् देहाकार एष्टव्यः, तथा तेनैव प्रकारेण तदपि विज्ञानं परिमितवस्तुत्वाद् देहपरिच्छिन्नवस्तुत्वात् कुम्भवत् साकारं युक्तम्, न तु निराकारमिति ॥ ३१७५ ।। ननु यत्रैकः सिद्धस्तत्र किमन्येऽपि भवन्ति, उत देशभेदतस्तिष्ठन्ति । इत्यत्र नियुक्तिकारः प्राह-
१ स न दीर्घो न ह्रस्वो न वृत्तः ।
२ नामूर्तस्याकारो विज्ञानस्येव न कुम्भनभस इव दृष्टः परिणामवतो ज्ञेयाकारं च विज्ञानम् ॥ ३१७४ ॥
३ जीवानन्यच्च यतो देहाकारश्च स तथा तदपि । परिमितवस्तुत्वतो युक्तं कुम्भ इव साकारम् || ३१७५ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥१२२३॥
www.jainelibrary.org
Loading... Page Navigation 1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160