Book Title: Visheshavashyak Bhashya Part 07
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah

View full book text
Previous | Next

Page 24
________________ विशेषा० ।।१२२२॥ Jain Educator inte 'ते पुण होज्ज विहत्था कुम्मापुत्तादओ जहन्नेणं । अन्ने संवट्टियसत्तहत्थसिद्धस्स हीण ति ॥ ३१६९ || ते जघन्यतो द्विहस्ताः कूर्मापुत्रादयो द्रष्टव्याः । अन्ये तु वदन्ति - 'सप्तहस्तोऽपि यन्त्रपीलनादिना संवर्तितः समाक्रोडितो यः सिध्यति तस्यात्र हीना जघन्यावगाहना प्रोक्तेति ।। ३१६९ ।। अथवा समाधानान्तरमाह बहुलाउ सुत्तम्मि सत्त पंच य जहन्नमुकोसं । इहरा हीणन्भहियं होज्जंगुल- धणुपुहत्तेहिं ॥ ३१७० ॥ अच्छेरयाई किंचि वि सामन्नसुए न देसिअं सव्वं । होज्ज व अणिबद्धं चिय पंचसयाएसवयणं व ॥ ३१७१ ॥ व्याख्या- अथवा, बाहुल्यात् प्राचुर्याश्रयणात् सूत्रे सप्त हस्ताः सिद्धिं गच्छतो जघन्यं मानमुक्तम्, उत्कृष्टं तु पञ्च धनुःशतानि प्रमाणमभिहितम् इतरथा कादाचित्कं जघन्यपदेऽङ्गुलपृथक्त्वैः, उत्कृष्टपदे धनुष्पृथक्त्वैर्हीनमभ्यधिकं वा तद् भवेदेवेति न कूर्मापुत्र-मरुदेव्यादिभिः कश्चिद् विरोध इति । आश्चर्यादिकं च किञ्चित् सामान्यश्रुते सर्व न देशितं न भणितम्, यथेदमेव सिद्धिं गच्छतां द्विहस्तमानं सपादपञ्चधनुः शतमानं चेति, अथ च श्रुतेऽनिबद्धमपि तदस्तीति श्रद्धेयम्, पञ्चशतादेशवचनवदिति ।। ११७० ।। ३१७१ ॥ यदुक्तम्- 'सैंठाणमणित्थंथं' इति, तद्वयाख्यानमाह- सुसिरपरिपूरणाओ पुव्वागारन्नहाववत्थाओ । संठाणमणित्थंथं जं भणियं अणिययागारं ॥ ३१७२ ॥ एत्तो च्चिय पडिसेहो सिद्धाइगुणेसु दहियाईणं । जमणित्थंथं पुव्त्रागारावेक्खाए नाभावो || ३१७३ || व्याख्या - शुषिरपरिपूरणात्, पूर्वाकारस्यान्यथाव्यवस्थापनात् सिद्धसंस्थानमित्थमनेन प्रकारेण तिष्ठतीति इत्थंस्थं न १ ते पुनर्भवेयुर्द्विहस्ताः कूर्मापुत्रादयो जघन्येन । अन्ये संवर्तित सप्तहस्त सिद्धस्य हीनेति ॥ ३१६९ ॥ २ बाहुल्यात् सूत्रे सप्त पञ्च च जघन्यमुत्कृष्टम् । इतरथा हीनमधिकं भवेदङ्गुल-धनुष्पृथक्त्वैः ॥ ३१७० ॥ आश्चर्यादि किञ्चिदपि सामान्यश्रुते न देशितं सर्वम् । भवेद् वाऽनिबद्धमेव पञ्चशतादेशवचनमिव ॥ ३१७१ ॥ ३ नि०गा० । ४ शुषिर परिपूरणात् पूर्वाकारान्यथाव्यवस्थातः । संस्थानमनित्थंस्थं यद् भणितमनियताकारम् ॥ ३१७२ ॥ एतस्मादेव प्रतिषेधः सिद्धादिगुणेषु दीर्घतादीनाम् । यदनित्थंस्थं पूर्वाकारापेक्षया नाभावः ॥ ३१७३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥२१२२ ॥ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160